________________
निशम्येति वचस्तस्य, ते मुनिं तं बभाषिरे । भवद्दत्तो धर्म्मलाभश्चतुर्णां कस्य जायते ? ॥ ४८९ ॥ मुनिराख्यद्भवन्मध्येऽतिशयेनास्ति यो जडः । तेऽप्याचख्युरहमहं, धर्म्मलाभाभिलाषुकाः ॥ ४९० ॥ साधुर्जगाद नगरे, गत्वा पण्डितवाक्यतः । विवेचयध्वं जडतां मा कार्षुर्मे कर्लि पुरः ॥ ४९१ ॥ जडाः साधुवचः श्रुत्वा, सद्यस्ते नगरं गताः । राटिमत्यस्य के साधोर्नाङ्गीकुर्व्वन्ति भाषणम् ? ॥ ४९२ ॥ अथ ते पत्तनं गत्वा, पौराणां पुरतोऽवदन् । पौरा युष्माभिरस्माकं, व्यवहारो विचार्यताम् ॥ ४९३ ॥ पौरैरुक्ता जडा भद्रा !, व्यवहारोऽस्ति कीदृशः । एते ततो वदन्ति स्म, सोऽस्माकं मौर्यगोचरः ॥ ४९४ ॥ अवादिषुस्ततः पौराः, वार्ताः खाः स्खा निगद्यताम् । एको मूर्खस्ततोऽवादीत्तावन्मे श्रूयतामिदम् ॥ ४९५ ॥ द्वे भार्ये पिठरोदर्ये, लम्बस्तन्यौ ममोर्जिते । वितीर्णे विधिना साक्षाद्वैताल्याविव भीषणे ॥ ४९६ ॥ प्राणेभ्योऽपि प्रिये ते मे, संपन्ने रतिदायिके । सर्व्वाः सर्व्वस्य जायन्ते खभावेन स्त्रियः प्रियाः ॥ ४९७ ॥ विभेम्यहं वरां (परं) ताभ्यां राक्षसीभ्यामिवानिशम् । स नास्ति जगति प्रायश्चकते यो न योषितः ॥ ४९८ ॥ क्रीडतो मे समं ताभ्यां काले गच्छति सौख्यतः । एकदा शयितो रात्रौ भव्येऽहं शयनोदरे ॥ ४९९ ॥ ते पार्श्वद्वये सुझे, द्वे बाहुद्वितयं प्रिये । अवष्टभ्य ममागत्य, वेगतो गुणभाजने ॥ ५०० ॥ विलासाय मयादायि, भालस्योपरि दीपकः । कामिनो हि न पश्यन्ति, भवन्तीं विपदं सदा ॥ ५०१ ॥