SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १६ ॥ पूर्वापरेण कार्याणि विदधात्यपरीक्ष्य यः । पश्चात्तापमसौ तीव्रं, चूतघातीव गच्छति ॥ ३९८ ॥ असूचि चूतघातीत्यं, बहिर्भूतविचारणः । साम्प्रतं कथ्यते क्षीरः, श्रूयतामवधानतः ॥ ३९९ ॥ वोहारविषये ज्यातः, सागराचारवेदकः । वणिक्सागरदत्तोंऽभूजलयात्रापरायणः ॥ ४०० ॥ उत्तीर्य सागरं नक्र - मकरग्राहसंकुलम् । एकदा पोतमारुह्य, चोचद्वीपमसौ गतः ॥ ४०१ ॥ वाणी जिनेश्वरस्येंव, सुखदानपटीयसी । गच्छता सुरभिनता, तेनैका क्षीरदायिनी ॥ ४०२ ॥ अन्येद्युः पायसीं नीत्वा, शुभखादां सुधामिव । तोमरो वीक्षितस्तेन, कायाकान्तिवितारिणीम् ॥ ४०३ ॥ संस्कृत्य सुन्दरं दमा, शाल्योदनमनुत्तमम् । दत्वा तेनेक्षितोऽन्येद्युः, पीयूषमिव दुर्लभम् ॥ ४०४ ॥ अलब्धपूर्वकं भुक्त्वा, मिष्टमाहारमुज्वलम् । प्रहृष्टचेतसाऽवाचि, तोमरेण स वाणिजः ॥ ४०५ ॥ वणिक्पते ! त्वया दिव्यं, केदृशं लभ्यतेऽशनम् ? । तेनावाचि ममेदृक्षं, कुलदेव्या प्रदीयते ॥ ४०६ ॥ भणितो म्लेच्छनायेन तेनासौ वणिजस्ततः । खकीया दीयतां भद्र ! ममेयं कुलदेवता ॥ ४०७ ॥ वणिजोक्तं तवात्मीयां, ददामि कुलदेवताम् । ददासि काङ्क्षितं द्रव्यं, यदि द्वीपपते ! मम ॥ ४०८ ॥ द्वीपेशेन ततोऽवाचि, मा कार्षीभद्र ! संशयम् । गृहाण वाञ्छितं वित्तं देहि मे कुलदेवताम् ॥ ४०९ ॥ मनीषितं ततो द्रव्यं, गृहीत्वा वणिजो गतः । समर्प्य सुरभिं तस्य, पोतेनोचीर्य सागरम् ॥ ४१० ॥ परीक्षा. ॥ १६ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy