SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तोमरणोदिताऽन्येधुः, पुरः पात्रं निधाय गौः। देहि तं दिव्यमाहारं, वणिजस्य ददासि यम् ॥ ४११॥ तेनेति भाषिता धेनुर्मूकीभूय व्यवस्थिता । कामुकेनाऽविदग्धेन, विदग्धेव विलासिनी ॥४१२॥ अवदन्ती पुनः प्रोक्ता, यच्छ मे कुलदेवते! । प्रसादेनाशनं दिव्यं, भक्तस्य कुरु भाषितम् ॥ ४१३॥ . मूकी रष्ट्वाऽमुनाऽवादि, प्रातर्दद्या ममाशनम् । स्मरन्ती श्रेष्ठिनो देवि, त्वं ति(ष्ठाऽत्र)निराकुला ॥ ४१४ ॥ द्वितीये वासरेऽवाचि, निधायाने विशालिकाम् । खस्थीभूता ममेदानी, देहि भोज्यं मनीषितम् ॥४१५॥ दृष्ट्वा वाचंयमीभूतां, कुद्धचित्तस्तदापि ताम् । द्वीपतो धाटयामास, प्रेष्य कर्मकरानसौ ॥४१६ ॥ वीक्षध्वमस्य मूढत्वं, यो नेदमपि बुध्यते । याचिता न पयो दत्ते, गौः कस्यापि कदाचन ॥ ४१७॥ निरस्ता तारशी धेनुस्तेन म्लेच्छेन मौढ्यतः। अज्ञानहस्ते पतितं, रत्नं व्यर्थ प्रजायते ॥४१८ ॥ दुग्धं सदपि नो धेनु-र्ददौ तस्याऽविचारिणः । एवं विचारशून्यानां, पुरो दत्ते न वाक्फलम् ॥ ४१९ ॥ कथमेषा पयो दाख-यधुना मुग्धधीरसौ । इदं नो पृच्छति स्पष्टमतो मूर्खशिरोमणिः ॥ ४२०॥ हितं पृष्टा सुधीभ्यो ये, कार्य कुर्षन्ति ते बुधाः । लभन्ते सौख्यमधिकं, परत्रेह महोदयाः ॥ ४२१ ॥ अयेदं कषितं धीरं, प्रासं म्लेच्छेन नाशितम् । अवाप्याज्जानिना ध्वस्तः, सांप्रतं कथ्यते गुरुः ॥ ४२२ ॥ सावकितावालाग्रजरबोजनि । रातिमचमाताकुम्भमेदनकेसरी ॥१२३ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy