SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ HESAॐॐRASAE आनीय वनपालेन, क्षितिपालस्य दर्शितम् । तत्पक्कं तुष्टचित्तेन, सङ्क्षिहरणक्षमम् ॥ ३८५ ॥ तन्माकन्दफलं दुष्टमविज्ञाय प्रमोदतः । अदायि युवराजस्य, राज्ञा दृष्ट्वा मनोरमम् ॥ ३८६ ॥ प्रसाद इति भाषित्वा, तदादाय नृपात्मजः । चखादासुहरं घोरं, कालकूटमिव द्रुतम् ॥ ३८७ ॥ए हर स तत्खादनमात्रेण, बभूव प्राणवर्जितः । जीवितं हरते कस्य, दुष्टसेवा न कल्पिता? ॥ ३८८ ॥ विपन्नं वीक्ष्य राजन्यं, राजा चूतमखण्डयत् । उद्यानमण्डनीभूतं, कोपानलवितापितः ॥ ३८९ ॥ काशशोकजराकुष्ठच्छर्दिशूलक्षयादिभिः । रोगैर्जीवितनिर्मिना, दुःसाधैः पीडिता जनाः ॥ ३९० ॥ अनिशविषमाकन्दं, खण्डितं क्षितिपालिना । आदायाऽखादिषुः सर्वे, प्राणमोक्षणकाङ्गिणः॥३९१॥ युग्मम् ॥ तदाखादनमात्रेण, सर्वव्याधिविवर्जिताः। अभूवन्निखिलाः सद्यो, मकरध्वजमूर्तयः ॥ ३९२ ॥ आकर्ष्याकल्यतां राजा, तानाहाय सविस्मयः। प्रत्यक्षीकृत्य दुश्छेद्य, विपादं तरसाऽगमत् ॥ ३९३ ॥ विचित्रपत्रसङ्कीर्णः, क्षितिमण्डलमण्डितः। सर्वाश्चासकरतो, यश्चक्रीव महोदयः ॥ ३९४ ॥ दूरीकृतविचारेण, कोपान्धीकृतचेतसा । निर्मूलकापमुत्तुङ्गः, स मया कषितः कथम् ? ॥ ३९५ ॥ युग्मम् ॥ अविचार्य फलं दत्तं, हा किं दुर्मेधसा मया । यदि दत्तं कुतश्छिन्नभूतो रोगनिसूदकः ॥ ३९६ ॥ इत्थं वानलेनेष, दुर्निवारण सन्ततम् । अदखत चिरं राजा, पश्चात्तापेन मानसे ॥ ३९७ ॥ LOCACACACACAUSA
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy