SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ S मा. ॥१४॥ ANSALALA तस्यालोक्य जनातीतं, मन्त्री सागमभाषत । कुमारेण विभो! सर्वः, कोशो दत्वा विनाशितः ॥३४६॥ ततोऽवादीनृपो नास्य, दीयते यदि भूषणम् । न जेमति तदा साधो, सर्वथा किं करोम्यहम् ॥ ३४७॥ नृपं मत्री ततोऽवादीदुपायं विदधाम्यहर । अभाषत ततो राजा, विधेहि न निवार्यसे ॥ ३४८॥ प्रदायाभरणं लोह, लोहदण्डं समर्प्य सः। समर्थ जनघाताय; कुमारममणीदिति ॥ ३४९॥ तव राज्यक्रमायातं, भूषणं बुधपूजितम् । मा दाः कस्यापि तातेदं, दत्ते राज्यं विनश्यति ॥३५॥ यालौहमिदं यो यस्तं तं मूर्धनि ताडयः । कुमार! लोहदण्डेन, मा कार्षीः करुणां क्वचित् ॥ ३५१ ॥ प्रतिपन्नं कुमारण, समस्तं मन्त्रिभाषितम् । के नात्र प्रतिपद्यन्ते, कुशलैः कथितं वचः ॥ ३५२ ॥ ततो लोहमयं दण्डं, गृहीत्वा स व्यवस्थितः। रोमाञ्चितसमस्ताङ्गस्तोषाकुलितमानसः॥ ३५३॥ योऽवदद्भूषणं लौहं, मस्तके तं जघान सः। व्युद्वाहितमतिर्नीचः, सुन्दरं कुरुते कुतः ॥ ३५४ ॥ सुन्दरं मन्यते प्राप्तं, यः खेष्टस्य वचः सदा । परस्यासुन्दरं सर्व, केनासौ बोध्यतेऽधमः ॥ ३५५ ॥ यो जात्यन्धसमो मूढः, परवाक्याविचारकः । स व्युदाही मतः प्राज्ञैः, स्वकीयाग्रहसक्तधीः ॥ ३५६ ॥ शक्यते मन्दरो भेत्तुं, जातु.पाणिप्रहारतः। प्रतिबोधयितुं शक्यो, व्युद्वाही न च वाक्यतः॥ ३५७ ॥ अज्ञानान्धः शुभं हित्वा, गृहीते वस्त्वसुन्दरम् । जात्यन्ध इव सौवणे, दीनो भूषणमायसम् ॥ ३५८ ॥ ॥१४॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy