________________
कोsपीष्टं किमपि ब्रूते, जनो भिन्नरुचिर्यतः । एतदेव मतं मे यन्नास्त्यभीष्टं स्त्रियोऽधिकम् ॥ ३३३ ॥ उक्त्वेति मूढचित्तः स, स्वयं तुम्बयुगे पृथक् । निवेश्यास्थीनि गङ्गां प्रत्यचलद्वटुक स्त्रियोः ॥ ३३४ ॥ कस्मिंश्चिन्नगरे तस्य, मिलितो बटुकोऽधमः । नमन् क्रमाविति प्राह, सहख मम दुर्नयम् ॥ ३३५ ॥ कोऽसीति ब्राह्मणेनोक्तः, स प्राह बटुकोऽस्मि ते । यज्ञनामा त्वदीयाङ्घ्रियुग्म सेवनजीवितः ॥ ३३६ ॥ श्रुत्वेति मूढधीर्वप्रः प्राह मे बटुकः क्व ? सः । भस्मितस्त्वं वञ्चकोऽसि, परं वञ्चय निर्धियम् ॥ ३३७ ॥ उक्त्वेति पुरमध्येऽस्य, गतस्य मिलिता प्रिया । भयभ्रान्ता क्रमन्यस्तमस्तका न्यगदीदिति ॥ ३३८ ॥ व्यवतिष्ठते ते द्रव्यं सहख दुरितं मम । आविष्कृतनिजाघस्य, सन्तः कुप्यन्ति नोपरि ॥ ३३९ ॥ निशम्येति वचस्तस्याः, प्राह भूतमतिर्द्विजः । कासि त्वं ! साह कान्ताऽस्मि, यज्ञिकासंज्ञिका तव ॥ ३४० ॥ श्रुत्वेति वचनं तस्याः, प्राह मूढमतिर्द्विजः । यज्ञिकास्थीनि तुम्बे मे, सन्ति त्वं कापि वञ्चिका ॥ ३४१ ॥ निगद्येति गतो गङ्गां मूढो भूतमतिर्द्विजः । विचारो न स्वयं यस्य, बोध्यते स कथं पुमान् ? ॥ ३४२ ॥ युष्माकमिति मूढोऽयं, संक्षेपेण निवेदितः । अधुनाऽऽकर्ण्यतां विप्रा ! व्युद्वाहीति निवेद्यते ॥ ३४३ ॥ दुर्द्धर्यामभवत्पुर्या, पार्थिवो दुर्धराभिधः । जात्यन्धस्तनयस्तस्य, जात्यन्धोऽजनि नामतः ॥ ३४४ ॥ हारकङ्कणकेयूर — कुण्डलादि विभूषणम् । याचकेभ्यः शरीरस्थं स प्रदत्ते दिने दिने ॥ ३४५ ॥