SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ ७ ॥ किला चणका देशे, मरीचानीव दुर्लभाः । म ( स ) मतगणना कापि, मरीचेष्वपि विद्यते ( १ ) ॥ १६४ ॥ विज्ञायतेऽयमस्माकं दुष्टो मुग्धत्वनर्म्मणा । उपहासं करोतीति, क्षिप्रमेष निगृशताम् ॥ १६५ ॥ धनिकस्येतिवाक्येन, बबन्धुस्तं कुटुम्बिनः । अश्रद्धेयवचोबादी, बन्धनं लभते न किम् ? ॥ १६६ ॥ केनापि करुणार्द्रेण, तत्रावादि कुटुम्बिना । अनुरूपोऽस्य दण्ड्यस्य, भद्रा ! दण्डो विधीयताम् ॥ १६७ ॥ निकामं मुष्टयोऽमुष्य, दीयतामष्ट मूर्धनि । उपहासं पुनर्येन, न कस्यापि करोत्यसी ॥ १६८ ॥ तस्येतिवचनं श्रुत्वा विमुच्यास्य कुटुम्बिभिः । मुष्टयो मस्तके दत्ता, निष्ठुरा निर्घृणात्मभिः ॥ १६९ ॥ एभिर्यन्मुष्टिभित्यक्तो, लाभोऽयं परमो मम । जीवितव्येऽपि सन्देहो, दुष्टमध्ये निवासिनाम् ॥ १७० ॥ विचिन्त्येति पुनर्भीतो, निजं देशमसौ गतः । वालिशा न निवर्त्तन्ते, कदाचिदकदर्थिताः ॥ १७१ ॥ विभागेन कृतास्तेन ( ? ), देशं सङ्गालमीयुषा । मरीचराशयो दृष्टास्तुल्याश्चणकराशिभिः ॥ १७२ ॥ तत्र तेन तदेवोक्तं, लब्धो दण्डोऽपि पूर्वकः । बालिशो जायते प्रायः, खण्डितोऽपि न पण्डितः ॥ १७३ ॥ मुष्टिषोडशकं प्राप्तं, यतः सत्येऽपि भाषिते । मुष्टिषोडशकन्यायः, प्रसिद्धिमगमत्ततः ॥ १७४ ॥ न सत्यमपि वक्तव्यं पुंसा साक्षिविवर्जितम् । परथा पीड्यते लोकैरसत्यस्येव भाषकः ॥ १७५ ॥ असत्यमपि मन्यन्ते, लोकाः सत्यं ससाक्षिकम् । वञ्चकैः सकलो लोको, वञ्चयते कथमन्यथा ? ॥ १७६ ॥ परीक्षा. ॥ ७ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy