SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पुंसा सत्यमसत्यं वा, वाच्यं लोकप्रतीतिकम् । भवन्ती महती पीडा, परथा केन वार्यते ? ॥ १७७ ॥ पुंसा सत्यमपि प्रोक्तं प्रपद्यन्ते न बालिशाः । यतस्ततो न वक्तव्यं, तन्मध्ये हितमिच्छता ॥ १७८ ॥ अनुभूतं श्रुतं दृष्टं, प्रसिद्धं च प्रपद्यते । अपरं च ( न ) यतो लोको, न वाच्यं पटुना ततः ॥ १७९ ॥ ममापि निर्विचाराणां मध्येऽत्र वदतो यतः । ईदृशो जायते दोषो, न वदामि ततः स्फुटम् ॥ १८० ॥ विचारयति यः कश्चित् पूर्वापरविचारकः । उच्यते पुरतस्तस्य, नापरस्य पटीयसा ॥ १८१ ॥ इत्युक्त्वाऽवस्थिते खेटे, जगाद द्विजपुङ्गवः । मैवं साधो ! गदीर्नास्ति, कश्चिदत्र विवेचकः ॥ १८२ ॥ माज्ञासीविचाराणां दोषमेषु विचारिषु । पशूनां जायते धर्म्मा, मानुषेषु न सर्वथा ॥ १८३ ॥ आभीरसदृशानस्मान्, मा ज्ञासीर्मुग्धचेतसः । वायसैः सदृशाः सन्ति, न हंसा हि कदाचन ॥ १८४ ॥ अत्र न्यायपटीयांसो, युक्तायुक्तविचारिणः । सर्वेऽपि ब्राह्मणा भद्र ! मा शङ्किष्ठा वदेप्सितम् ॥ १८५ ॥ यद्युक्त्या घटते वाक्यं, साधुभिर्यच बुध्यते । तद् ब्रूहि भद्र ! निःशङ्को, ग्रहीष्यामोऽविचारतः ॥ १८६ ॥ इति विप्रवचः श्रुत्वा, मनोवेगोऽलपद्वचः । जिनेशचरणाम्भोजचञ्चरीकै कलम्बनः ॥ १८७ ॥ - रतो-बिटो बातो मूढो, बुझाही पित्तदूषितः । यूतः श्रीगुरुर्ज्ञेयाथन्दनो बालिशा (शों) दश ॥ १८८ ॥ पूर्वापरविचारेण तिर्यञ्च इव वर्जिताः । सन्त्यमी यदि युष्मासु, तदा वक्तुं विमेम्यहम् ॥ १८९ ॥ =पाय करनार
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy