SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ परीक्षा. तं जगाद मनोवेगो, भद्र । निर्धनमानवः। समेतोऽहं पुरे का, तुमकाष्ठकविकपम् ॥ १३८॥ प्राह विप्रस्ततो भद्र ! विष्टरे किं न्यविक्षत ? । भवान्वादमनिर्जित्य, भेरीताडनपूर्वकम् ॥ १३९ ॥ यद्यस्ति वादशक्तिस्ते, कुरु तत्पण्डितैः समम् । स्पष्टशास्त्रैर्वादिदर्पदलनैः पण्डितोत्तमैः ॥ १४०॥ कोऽपि याति पुरादस्मान्न वादजयकीर्तिमान् । नागधानः शेषनागमणिमादाय को व्रजेत् ! ॥ १४१॥ पिशाचकी वातकी वा, यौवनोन्मादवानसौ। येनैवं वर्णमाणिक्यभूषणः काष्ठविक्रयी ॥ १४२ ॥ सन्त्यनेके क्षितौ धृष्टा, भूरिशो जनमोहकाः। त्वादृशो नापरो येन, तनोषि बुधमोहनम् ॥ १४३॥ मनोवेगस्ततः प्राह, विप्र ! किं कुप्यसे वृथा ? । निष्कारणं कुप्यते हि, पन्नगेन न पण्डितैः ॥ १४४ ॥ वर्णासनं विलोक्याहं, कौतुकाद्विनिविष्टवान् । शब्दव्याप्तिविनोदाय, दुन्दुभिस्ताडितो मया ॥१४५॥ तार्णकाष्ठिकदेहोत्थो, वादनाम न वेदम्यहम् । अस्मादृशानां मूर्खाणां, भवेच्छाखकथा कुतः! ॥ १४६ ॥ भारतादिषु शास्त्रेषु, सन्ति किं नेशा नराः!। परेषां दूषणं विश्वे, वीक्ष्यते नात्मनः पुनः ॥ १४७ ॥ हेमासनस्थिते मय्यरतिस्ते यदि भो द्विज ? । उत्तरामि तदेत्युक्त्वाऽवातरन् खेचरस्ततः ॥ १४८ ॥ तमालोक्यासनोत्तीर्णमथावादीत् द्विजोत्तमः। तार्णिकाः काष्ठिका दृष्टा, न मया रत्नमण्डिताः ॥ १४९ ॥ परप्रेष्यकरा मया, रत्नालङ्कारराजिताः । वहन्तस्तृणकाष्ठानि, दृश्यन्ते न कदाचन ॥ १५॥ IP॥६॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy