________________
पितुस्ते कुशलं भद्र !, परिवारगणस्य च ? । साधूक्तमेवमाकर्ण्य, मनोवेग इदं जगौ ॥ ७३ ॥ पादास्ते यस्य कुर्वन्ति, रक्षां तस्य नरेशितुः । विघ्नाः कथं ? वैनतेयरक्षितस्याहिपीडनम् ॥ ७४ ॥ उक्त्वेति राजसूः साधु, पप्रच्छेति कृताञ्जलिः । सुहृन्मे भगवद्धर्मे, समेष्यति कुधीः कदा ? ॥ ७५ ॥ मिध्यात्वे वर्त्तमानः स चिन्तां दत्ते ममोच्चले । सख्यं शुद्धदृशां शुद्धदृष्टिभिः सह सौख्यकृत् ॥ ७६ ॥ पृति विरते भूपपुत्रे योगीश्वरोऽवदत् । एष त्यक्ष्यति मिध्यात्वं, पाटलीपुत्रपत्तने ॥ ७७ ॥ बोध्यमानस्त्वया तत्र, नीत्वा सद्युक्तिहेतुभिः । प्राप्स्यति ज्ञानजं तेजो, मिध्यात्वध्वान्तनाशनात् ॥ ७८ ॥ प्रत्यक्षमन्यतीर्थीयमतान्येव विलोकयन् । विरक्तात्मा ततो जैनधर्मास्थां स करिष्यति ॥ ७९ ॥ श्रुतेषु जैनवाक्येषु, याति मिध्यात्ववाग्भ्रमः । भानोः करेषु दीप्रेषु, ग्रहतेजः कियद् भवेत् ॥ ८० ॥ निशम्येति वचः साधोर्मनोवेगः क्रमाम्बुजम् । प्रणम्य खपुरे गन्तुं, विमानस्थश्चचाल सः ॥ ८१ ॥ अथ यावन्मनोवेगो, याति खां नगरीं प्रति । दिव्यं विमानमारूढो, नाकीव स्फुरितप्रभम् ॥ ८२ ॥ विमानवर्त्तिना तावत्, सुरेणेव सुरोत्तमः । दृष्टः पवनवेगेन, स सम्मुखमुपेयुषा ॥ ८३ ॥ स दृष्टो गदितस्तेन, क्व स्थितस्त्वं मया विना । इयन्तं कालमाचक्ष्व नयेनेव स्मरातुरः ॥ ८४ ॥ यो न त्वया विना शक्तः, स्थातुमेकमपि क्षणम् । दिवसो भास्करेणेव स तिष्ठामि कथं चिरम् ? ॥ ८५ ॥