SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ३॥ संपन्नं धर्म्मतः सौख्यं निषेव्यं धर्म्मरक्षया । वृक्षतो हि फलं जातं, भक्ष्यते वृक्षरक्षया ॥ ६० ॥ पश्यन्तः पापतो दुःखं, पापं मुञ्चन्ति सज्जनाः । जानन्तो वहितो दुःखं, वह्नौ हि प्रविशन्ति के ॥ ६१ ॥ सुन्दराः सुभगाः सौम्याः, कुलीनाः शीलशालिनः । भवन्ति धर्म्मतो दक्षाः, शशाङ्कयशसः स्थिराः ॥ ६२ ॥ विरूपा दुर्भगा द्वेष्या, दुष्कुला शीलनाशिनः । जायन्ते पापतो मूढा, दुर्यशोभागिनश्चलाः ॥ ६३ ॥ व्रजन्ति सिन्धुरारूढा, धर्म्मतो जनपूजिताः । धावन्ति पुरतस्तेषां पापतो जननिन्दिताः ॥ ६४ ॥ धार्मिकाः कान्तयाऽऽश्लिष्टाः, शेरते मणिमन्दिरे । पापिनो रक्षणं तेषां कुर्वते शस्त्रपाणयः ॥ ६५ ॥ भुते मिष्टमाहारं, सौवर्णाऽमत्रसंस्थितम् । धार्मिकाः पापिनस्तेषामुत्सृष्टं भषणा इव ॥ ६६ ॥ चक्रिणस्तीर्थकर्त्तारः, केशवाः प्रतिकेशवाः । सर्वे धर्मेण जायन्ते, कीर्त्तिव्यासजगत्रयाः ॥ ६७ ॥ वामनाः यामनाः खञ्जा, रोमशाः किङ्कराः शठाः । जायन्ते पापतो नीचाः सर्व्वलोकविनिन्दिताः ॥ ६८ ॥ प्रशस्तं धर्म्मतः सर्वमप्रशस्तमधर्मतः । विख्यातमिति सर्वत्र, वालिशैरपि बुध्यते ॥ ६९ ॥ प्रत्यक्षमिति विज्ञाय, धर्माधर्म्मफलं बुधाः । अधर्म्यं सर्वथा मुक्त्वा, धर्मं कुर्वन्ति सर्वदा ॥ ७० ॥ योगिनो वचसा तेन, प्रीणिता निखिला सभा । पर्जन्यस्येव तोयेन, मेदिनी तापनोदिता ॥ ७१ ॥ कृत्वैवं देशनां योगी, जितशत्रुस्तं विदन् । तं जगादेति सद्धर्म्मपक्षपातविचक्षणः ॥ ७२ ॥ I परीक्षा. ॥ ३ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy