SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पालितवान् तत् दुष्करम् ॥ ॥ निर्मलशीलकलितस्य अतिदुष्करदुष्करकारकस्य श्रीस्थूलभद्रस्य क्रमकमले चरणकमलं सर्वदा नमामः ॥ ॥ यो हावभावशृङ्गारसारवचनैरनेकरूपैर्वालाग्रमपि मनागपि न चलितः तस्मै नमोऽस्तु स्थूलभद्राय ॥ ॥ पुरा अनुभूतानि रहस्यभणितानि लपन्त्या कथयन्त्या कोशया वेश्यया यो मनागपि न क्षुभितः तस्मै स्थूलभद्राय नमोऽस्तु ॥ ॥ योऽत्युद्भटलावण्यपुण्यपूर्णेषु मध्याङ्गेषु नेत्रोदरादिषु निरीक्षितेष्वपि न क्षुभितस्तस्मै स्थूलभद्राय नमोऽस्तु ॥ ॥ यो महाकटाक्षविक्षेपरूपतीक्ष्णशरपति भिर्न विद्धः, मेरुरिव निष्प्रकम्पश्च स्थितः, स स्थूलभद्रो मुनिर्जयतु ॥ ॥ अस्खलितगर्वकन्दर्पमर्दने लब्धा जयपताका येन तस्मै स्थूलभद्राय त्रिकालं त्रिविधेन नमो नमः ॥ ॥ अग्निना सुवर्णवत् तेन कोशासंसर्गेण यः उच्छलितबहुतेजाः उच्छलितबहुप्रतापः संजातः स स्थूलभद्रो मुनिश्चिरं जयतु ॥ ॥ यो वेश्यारूपकृष्णभुजङ्ग्या मुखे पतितोऽपि शीलमहामन्त्रेण न निर्दष्टस्तस्य स्थूलभद्रस्वामिनो मुनेश्चरणयुगलमहं वन्दामि ॥ ॥ अहं तस्य स्थूलभद्रस्य पदकमलं सर्वदा प्रणमामि येन कोशाया अर्धांक्षिप्रेक्षणानि कटाक्षविक्षेपादीनि न गणितानि अतिधीरतया न चित्ते धारितानि ॥ ॥ स मकरध्वजकुम्भि-कुम्भनिर्मथनः कामदेवहस्तिकुम्भस्थलनिर्भेदी निर्मथितमोहमल्लः निर्दलितमोहमल्लः स्थूलभद्रो धन्यः, यो गुरुणा आर्यसंभूतिविजयसूरिणा अधिकं दुष्करदुष्करकारकत्वेन प्रशंसितः ॥ ॥ सहस्रनयनोऽपि इन्द्रोऽपि यस्य स्थूलभद्रस्य ध्यानाग्निं वर्णयितुं न क्षमः, यत्र यस्मिन्नग्नौ त्रिजगद्दमनोऽपि मदनवत् नवनीतवत् मदनः कामदेवः क्षयं गतः ॥ ॥ यूयं प्रणमत भक्तिभरेण त्रिकालं त्रिविधकरणयोगेन मनवचनकायैः करणकारापणानुमतिभिः निहतकन्दर्पभटपातौ श्रीस्थूलभद्रपादौ ॥३४-४६ ॥ ॥ श्रीऋषिमण्डल का
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy