________________
हरिर्वन्दनाय चलितः सोऽपि रथारूढो नृपेण सह जिनं ववन्दे । एकाग्रचित्तो धर्मं शृणोति स्म । ततः संसारस्यासारतां विभाव्य दीक्षां ययाचे । स्वाम्यूचे वत्स ! युक्तम् । तेनाप्य(पि) माता मानिता । सा विष्णोरुपान्ते दीक्षामहोत्सवाय छत्राद्यं ययाचे । कृष्णस्तूचेऽहं विधास्येऽस्य दीक्षामहमित्युक्त्वा तद्गृहं गतोऽवादीत् वत्स ! विषमं व्रतं, सुखं भुझ्व । सोऽवग, भयार्त्तानां किं सुखं?, भो ! मयि राज्ञि का भी: ? वद वारये यथा । सोऽवग्, जरामृत्यू वारय । राज्ञोक्तं, शक्रेणाप्यमू दूर्वारौ । ततस्तन्निर्णयं ज्ञात्वा इत्युदघोषयत्, अहो ! पुण्यः स थावच्चापुत्रो दीक्षां लाति, योऽन्योऽपि सार्थे स्यात् तत्कुटुम्बं निर्वाहयाम्यहम् । ततो राजकुमारसहस्रं व्रतार्थमुत्तस्थौ । स तैः सह कृष्णकृतमहोत्सवः प्रव्रज्य चतुर्दशपूर्व्यभूत् । स्वाम्यदात्तमेव परिकर तस्मै । सोऽथ विहरन् शेलकपुरे पञ्चशतमन्त्रियुतं शेलकभूपं श्राद्धं चक्रे । ततः सुगन्धीपुर्यां शुकपरिव्राड्भक्तसुदर्शनश्रेष्ठी श्राद्धोऽकारि । स शुकस्तं श्राद्धभूतं श्रुत्वा तत्रागतः सम्यक् श्रेष्ठी तं सच्चक्रे । स दध्यौ यावन्न याम्येतद्गुरुं तावन्नासौ वक्तुं योग्यः । ततोऽवग् भो ! भव्यस्त्वं जैनोऽभूः ! त्वद्गुरुः क्व ? श्रेष्ठयूचे मद्गुरुः थावच्चापुत्रो वने वर्तते। सोऽथ श्रेष्ठियुक्तस्तत्र गतः 'सरिसवया भक्खा अभक्खा वा ? कुलत्था भक्खा अभक्खा वा' इत्यादिच्छलप्रश्नान्यकार्षीत् । गुरुरूचे 'भक्खा अभक्खा अ सरिसवया सर्षपाः सदृशवयसो वा, कुलत्था कुलीनाः अन्नं वा'। ततः शुकः सर्वज्ञोऽयमिति बुद्ध्वा सहस्रशिष्ययुक् प्रव्रज्य चतुर्दशपूर्व्यभूत् । सोऽथ गुरुदत्तपूर्वपरिवारो विहरेत्(व्यहरत्) । गुरुः शत्रुञ्जये द्विमासानशनी शिवं ययौ । शुको विहरन् पन्थकादिपञ्चशतमन्त्रिवृतं शेलकपुरेशं दीक्षितवान् । एकादशाङ्गभृत् शुकेन पञ्चशतेशः
सूरीकृतः। शुकः शत्रुञ्जये सिद्धः । - स्तवप्रकरणम्॥ स्तवप्रकरणम्॥
१७
૧૭