SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ५६ युक्तिकल्पतरी एकैक हस्त वृद्या तु मञ्चानामिति लक्षणम् ॥३८७|| यात्रासिद्धिं समारभ्य येऽमौ षोड़श कीर्त्तिताः I आदित्यादि-दशाजानामाद्यन्तेक इयं क्रमात् ॥ ३८८ ॥ दूर-दर्शों दीर्घ-दर्शी दुर्लङ्घयोऽथ दुरासदः । यथोत्तरं दशगुणा पादक (५) परिणाहिनः ॥ ३८८ ॥ प्रासादसंज्ञकाः कार्य्या राज्ञा सुखमभीप्सता । चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥ श्रीभोजमते च. - मर्व्व त्रिंशतिकां यावत् आरभ्योभय-षोड़शीम् । खट्टाणामिति नामानि अष्टौ हस्त - ( ६ ) इयाधिको ॥ ४०१ ॥ तदुयथा, - मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्टानामष्टकं विदुः ॥ ४०२ ॥ आसां पूर्ववद् विभागः । पराशर संहितायान्तु - अष्टाभिः काष्ठ-खण्डैस्तु योऽक्षं पिण्डो (७) विजायते । म चेव्समो भवेत् खट्टा प्रणाश्या स्याद यतोऽन्यथा ॥ ४०३ ॥ समे सर्वाय - सम्पत्तिर्विषमे विपदास्पदम् । तस्मात् खट्टाङ्ग(८)पिण्डो यः समः कार्यः स सूरिभिः ॥ ४०६ ॥ (५) पर्दक इति (ख) पुस्तक पाठः । ( () हस्ता इति (ख) पुस्तक पाठः (७) विजायते इति (ख) पुस्तक पाठः । (८) खट्टाङ्ग इति (ग) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy