SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नौतियुक्तिः ।, अथ दूतलक्षणम् । दूतञ्चैव प्रकुर्वीत सर्वशास्त्र-विशारदम् । इङ्गितचं तथा सभ्यं दक्ष सत्कुल(१७)सम्भवम् ॥ ७२ ॥ अनुरक्ताः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुमान् वौतभीर्वाग्मी दूतोराज्ञः प्रशस्यते ॥ ७३ ॥ दूत एव हि सन्धत्ते भिनत्त्येव हि सङ्गता(म्)न् । विमृष्टार्थो (१८) मितार्थश्च तथा शासन-हारकः ॥ ७४ ॥ दूता स्त्रयोऽमात्यगुणैः समः पादाईवर्जितैः। विमृष्टार्थः कार्यवशात् शासनं न करोति यः ॥ ७५ ॥ मितार्थः कार्यमात्रोक्तौ न कुर्यादुत्तरोत्तरम् । यथोक्तवादी (१८) सन्देश-हारको लेखहारकः ॥ ७६ ॥ तत्र दूतो व्रजन्नेव चिन्तये दुत्तरोत्तरम् । वार्ताविशेष भूपाय न (२०) झटिल्यङ्गवेश्मनि ॥ ७७ ॥ दूतोहि न (२१) लिखेत् किञ्चिन्त्रिणेता विनिसंशयम् । पृच्छमानो हि न ब्रुयात् स्वामिनः कापि वैशसम् * ॥ ७८ ॥ पणवहो (२२) भवेत् सन्धिः स्वयं होन (२३) स्तमाचरेत् । (१७) सु(स)कुल इति (क)-(ख) पुस्तक पाठः । (१८) विमृष्यार्थः इति (क) पुस्तक पाठः । (१८) यथोक्तवाणौ इति (क) पुस्तक पाठः। (२०) झटितीत्यङ्ग इति (क) पुस्तक पाठः । (२१) हि स लिखेत् इति (क) पुस्तक पाठः। (२२) पणवन्धः इति (क)-(ख) पुस्तक पाठः । (२३) स्वयं हि न इति (ग) पुस्तक पाठः । • वैशसं-वधं, विशेषानिष्टापातं, प्रतिरोध वा न वदत् इति ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy