________________
प्रथमोऽध्यायः ।
-२७
वेष्यते । एकाक्षराणां तु पादान्तयतौ पादमध्ये समुद्रादियतौ च । तदुक्तं
कविकल्पलतायाम् -
एकस्वरोपसर्गेण विच्छेदः श्रुतिसौख्यकृत् । इति । पादान्ते यतौ प्रत्युदाहरणं तत्रैवोक्तम्
यथा - पिनाकपाणिं प्रणमामि स्मरशासनम् । इति । पादमध्ययतौ प्रत्युदाहरणम् - "विष्णु रुद्रं च खलु भजतां नैव संसारबन्धः" अनेकाक्षराणां तु पादमध्ये चामीकरादिष्विव पूर्वापरभागयोरेकवर्णत्वाद्यतिरिष्ठैव । तत्र चादीनां यथा - "प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्” (मे० २-३२ ) ( १ ) इत्यादि । प्रादीनां यथा - "दूरारूप्रमोदं हसितमिव परिस्पृष्टमाशासखीभिः” । श्रत्र " नित्यं प्राक्पदसम्ब द्धा" इत्यत्र च "स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात्” इति । “नित्यं प्राक्पदसम्बद्धा इति किम् ? " मन्दायन्ते न खलु सुहृदामभ्युपे - तार्थकृत्याः” ( मे० १-३८ ) (२) इति । " परेण नित्यसम्बद्धा” इत्यत्र च "दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः" इत्यादि वृत्तिकारैः समुद्रादियतिरुदाहृता । श्रन्ते च श्रयं तु पादान्तयतावन्तादिवद्भाव इष्यते, न तु पादमध्ययतौ” इत्यादि स्वयमेवोक्तं तद्विचारणीयम् । तथाअनुक्तयतिकेऽप्येवं कार्या श्रुतिसखा यतिः ।
तदुक्तं कविकल्पलतायाम् -
एवं यथा यथोद्वेगः सुधियां नोपजायते । तथा तथा मधुरतानिमित्तं यतिरिष्यते ॥ शुक्लाम्बरादयस्तु पादान्त एव यतिमाहुः । भरतादयस्तु यतिमेव नेच्छन्ति । श्रत एव कविप्रयोगाः । तत्र भर्तृहरेः
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
(१) पूर्णः श्लोक इत्थम् -
रुद्धाऽपाङ्गप्रसरमलकैरखनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ॥ त्वय्यासन्ने नयनमुपरिस्यन्दि शङ्के मृगाच्या
मीनक्ष भाञ्चलकुवलयश्रीतुलामेष्यतीति ॥ ( मे० २-३२ ) (२) पूर्णः श्लोक एवम् -
तां कस्यां चिद्भववलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ॥
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ (मे० १-३८)