SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे दपरिगणयन्गुह्यकस्तं ययाचे"( मे०१-५)(१) इति । "नित्यं प्राक् पदसम्बद्धा" इति । तेभ्यः पूर्वा यतिन कार्येत्यर्थः । यथा-"बाले भूपतिमौलिलालितपदद्वन्द्वत्ववृद्धेऽपि च"। आदिपदात् "रक्षोभिः सुरमनुदितेः सुतैर्वा' । प्रत्युदाहरणं तु.. नमः शिवाय कृष्णाय च दानवविनाशिने । "नित्यं प्राक्पदसम्बद्धा” इति किम् ? “तथाऽऽद्रियन्ते न बुधाः सुधामपि” ( नै०१-१)(२) । चादय इति किम् ? सम्पत्तिःसैव रमणीसखैर्या भुज्यते भुवि । - अत्र समासन्तटच्प्रत्ययान्तसखिशब्दस्य नित्यं प्राक्पदसम्बद्धत्वेऽपि यतिर्न दुष्यति । “परेण नित्यसम्बद्धा” इति । परादिति तेभ्यः परा यतिर्न भवतीत्यर्थः । “प्रस्मृतः किमथवा पठितो नु" (नै०५-१२१) (३) आदिपदात् "निजगृहे जयिनं तिसृणां पुराम्" परेण नित्यसम्बद्धा इति किम् ? कर्मप्रवचनीयेभ्यः पराऽपि यतिर्भवत्विति । यथा श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । प्रादय इति किम् ? "राक्षसाधिपबलं प्रणाशया चक्रतू रघुवरौ वरौ रणे”। अयं त्वनेकाक्षराणां चादीनां प्रादीनां चादिवद्भावः पादान्तयतावे(१) पूर्णः श्लोक एवम्धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः ॥ इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे __ कामार्ता हि प्रकृतिकृपणाश्चेतनाऽचेतनेषु ॥ (मे० १--५) (२) पूर्णः श्लोक एवम्-. निपीय यस्य तितिरक्षिणः कथा-- स्तथाऽऽद्रियन्ते न बुधाः सुधामपि ॥ . नलः सितच्छत्रितकीर्तिमण्डलः ___ स राशिरासीन्महसां महोज्ज्वलः ॥ ( नै०१-१) (३) पूर्णः श्लोक एवम्-- नाक्षराणि पठता किमपाठि अस्मृतः किमथवा पठितोऽपि ॥ इत्थमर्थिजनसंशयदोला खेलनं खलु चकार नकारः ॥ ( न०५-१२१)
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy