________________
नारायणभट्टीसहितवृत्तरत्नाकरेपिबेञ्च मृगतृष्णिकासु सलिलं पिपासादितः॥ कदाचिदपि पर्यटञ्शशविषाणमासादये
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ (नी०श०५) इति । जयदेवस्यापि-"भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि" (गीगो०१२-१२) (१) इति । तदुभयं बहुविरोधाञ्चिन्त्यम् । इयं च यतिवृत्तस्वरूपाद्भिन्नाऽपि गुणालङ्काराद्यपेक्षयान्तरङ्गाङ्गत्वात्सूत्रकारादिभिलक्षणमध्ये निबद्धा, न तु वृत्तस्वरूपतया । मात्रागुरुलघुनियमनं हि वृत्तलक्षणं, विरामात्मकत्वं च यतेः । अत एव वामनेन काव्यालङ्कारसूत्रेषु "न वृत्तदोषात्पृथग्यतिदोषो वृत्तस्य यत्यात्मकत्वात्" (वा०सू० २-२-५) इत्याशङ्कय "न लक्ष्मणः पृथक्त्वात्" (वा०सू०२-२-६) इति परिहृतमित्यलम् ॥ १२॥ परिभाषान्तरमाह
· युक्समं विषमं चायुक्स्थानं सद्भिनिगद्यते ॥ समं द्वितीयचतुर्थादिस्थानं युगिति सद्भिनिगद्यते कथ्यते । विषम चैक आदि स्थानं सद्भिरयुक् निगद्यते । चकारात्समस्य युग्मानोजसंक्षे विषमस्य युग्मौजसंशे इत्यादि शेयम् । ___ पदैः पादाख्यैर्घटितं पद्यम् । तद् द्विविधम्-जातिवृत्तं चेति । जातिनियतमात्रिका । वृत्तं नियतगुरुलघुविन्यासम् । तत्र जातिरादि । वृत्तमुक्तादि समाधसमविषमात्मकम् । तदुक्तम्
पद्यं चतुष्पदं तश्च वृत्तं जातिरिति किया।
वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥ इति । इत्येतत्सवं मनसि निधाय वृत्तस्य भेदानाह
सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १३ ॥ समाख्यमर्धसमाख्यं विषमाख्यं चेति त्रिधा वृत्तमित्यर्थः ॥ १३॥ त्रिविधस्यापि वृत्तस्याऽन्वर्थसंज्ञामाश्रित्य क्रमेण स्वरूपमाह श्लोक
(१) पूर्णः श्लाक एवम्साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे | कर्कशासि
द्राक्षे ! द्रक्ष्यन्ति के त्वाममृत ! मृतमसि क्षीर ! नीरं रसस्ते ॥ माकन्द ! कन्द कान्ताऽधर ! धर न तुलां गच्छ यच्छन्ति यावत् . भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि॥ (गी०१२-१२)