________________
११
प्रथमोऽध्यायः। रोलघुत्वं संयोगनिमित्तकगुरोरेव, न दीर्घादेः । अत्र सोदाहरणो मामकः सङ्ग्रहश्लोकः
युक्तपरत्वनिमित्तकप्रान्तगुरोरेव वेष्यते लघुता । पादान्तस्थलघोरिह गुरुता वेष्टस्य जानीहि ॥ इत्यलं प्रपञ्चेन ।
इदं चोपलक्षणं प्रशब्दे हशब्दे च परतोऽपादान्तस्थस्यापि लघुतायाः कविप्रयोगे दर्शनात् । तथा च कुमारसम्भवे-"गृहीतप्रत्युद्गमनीयवस्त्रा" (कु. ७-११) (१)इति प्रशब्दे परतस्तस्य लघुता दृष्टा । माघे च--"प्राप्य नाभिह्रदमजनमाशु” (शि. व. १०-६०) (२) इति । अन्यत्रापि-“तव ह्रियापह्रियो मम हीरभूत्" इति हशब्दे परतो लघुता दृष्टा । अन्ये तु संयोगमात्र परभूते लघुत्वमतीवतीव्रप्रयत्नतयेत्याहुः । अत एव सरस्वतीकण्ठाभरण उक्तम्
यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् । न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः ॥ (सर. १-१२३) तथा च कविप्रयोगाः। रामायणेकृतार्थाश्च कृतार्थानां मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुते ॥ इति । एवं तदार्या नृपवीरसिंह !
सीता वचः प्राह विषादयुक्तम् ॥ एतच्च श्रुत्वा गदितो मया त्वं
सीतोपलम्भे प्रकुरुष्ब बुद्धिम् ॥ इति च । तव ह्रियाऽपह्रियो मम हीरभू
च्छशिगृहेऽपि हृतं न धृता ततः। बहुलभ्रामरमेचकतामसं (१) तथा च सम्पूर्णः श्लोकः
सा मङ्गलस्नानविशुद्धगात्री
गृहीतप्रत्युद्गमनीयवस्त्रा॥ निर्वृत्तपर्जन्यजलाऽभिषेका
प्रफुल्लकाशा वसुधेव रेजे ॥ (कु० ७-११) (२) पूर्णः श्लोकस्त्वित्थम्प्राप्य नाभिह्रदमजनमाशु
प्रस्थितं निवसनग्रहणाय॥ औपनीविकमरुन्ध किल स्त्री
वल्लभस्य करमात्मकराभ्याम् ॥ (शि० १०-६०)