________________
नारायणभट्टीसहितवृत्तरत्नाकरेगुणिनामपि निजरूपप्रतिपत्तिः परत एव सम्भवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् ॥ (वास०)
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य(१)। इत्यादौ गुरुतैव । आर्यामुदाहरन्त आर्यासु पाव्यवस्थाभावं वदन्तो वृत्तिकृतः पराकृताः । अत एव
त्रिभिस्त्रिभिगंणैः पादावार्यादेविषमौ स्मृतौ । इति, “यस्याः पादे प्रथमे" (श्रु०४) (२) इत्यादि चाभियुक्तैरुक्तं, पथ्याभिप्राय वा, तत्र पादव्यवस्थाया वक्ष्यमाणत्वात् ।
ननु वा पादान्ते' (वृ०र०१-९) इत्यत्र वर्णमात्रस्य वा पादान्तस्थस्य गुरुता विकल्प्यते, गुरोरेव वा नित्यप्राप्ता सा विकल्प्यते, लघोरेव वा ? नाद्यः, पादान्तवर्णमात्रस्य तेनैव गुरुताविकल्पे पक्ष लघुत्वस्यापि सिद्धत्वात्पादादावित्यस्य वैयर्थ्यप्रसङ्गात्, लध्वंशेऽप्राप्तविकल्पः, गुवंशे प्राप्तविकल्प इति विरुद्धार्थद्वयक़तवाक्यभेदप्रसङ्गाश्च । न द्वितीयः, तेनैव पाक्षिकलघुतायाः सिद्धौ पुनर्विधानवैयर्थ्यात् , 'तरुणम्। (वृ०र० १-११) इत्युदाहरण एव द्वितीयचतुर्थपादान्तयोर्लध्वोर्गुरुस्वाभावे च्छन्दोभङ्गप्रसङ्गाच्च । न तृतीयः, लघोस्तत्राप्रस्तुतत्वात् , असंयोगपरस्यापादान्तगुरोरक्रमपरत्वात्पाक्षिकलघुत्वाभावप्रसङ्गाश्चेतिचेत्, अत्र पादान्तवर्णमात्रमुद्दिश्य विकल्पितं गुरुत्वं तेन विधीयत इति विधेयोद्देश्ययोरेकैकावच्छेदादर्थद्ववस्यार्थसिद्धत्वाद्वाक्यभेदाभावः पौरुषेयत्वाद्वा स न दोषः । पादादाविति च तस्यैव विषयं प्रदर्शयद्विवरणम् । तरुणमित्यादिषु गुरोलघुतायां तृतीयपाद उदाहरणम् , लघोर्गुरुतायां च द्वितीयचतुर्थपादयोरुदाहरणमित्यापातत उत्तरं भवति॥ वस्तुतस्त्वप्रस्तुतस्याप्यर्थतो बुद्धिस्थस्य लघोरेव गुरुता तेन विकल्प्यते । पादान्तगुरोस्तु लघुता संयोगपरस्यैवेत्यनेनैवोच्यते । अक्रमपरस्य तु पादान्तगुरोर्लघुता नेष्टैव । श्रत एव, “गन्ते” (पि. स. २-१०) इति सूत्रे "गृ ल" (पि. सू. २-१) इति पूर्वसूत्राद् गृग्रहणमनुवर्त्य गृशब्दोपलक्षितस्य ह्रस्वाक्षरस्य पादान्ते वर्तमानस्य गुरुसंज्ञाऽतिदिश्यते इति वृत्तिकारेणोक्तम् । इदं च गु' (१) अस्योत्तराधं यथा
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ इति । - (२) पूर्ण पद्यं यथा
यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थक पञ्चदश साऽऽर्या ॥ इति ।