________________
नारायणभट्टीसहितवृत्तरत्नाकरे
मम प्रिये ! क्व समेष्यति नो पुनः ॥ इति च ।
अन्यत्र च - "धनं प्रदानेन श्रुतेन कर्णौ " इत्यादि च । प्राकृतेऽपि - जह रहाउं श्रोइरणे अब्भन्त (?) मुल्हासिश्रमंसु श्रद्धन्तम् । तह अरहानासि तुमं सच्छे गोलाईतूहे ॥
यथा त्रातुमवतीर्णे भूतमुल्लसितमंशुकार्थान्तम् । तथा च स्नातासि त्वं स्वच्छे गोदानदीतीर्थे ॥ इति । श्रत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद् गुरुत्वेऽपि रहल्हादिसंयोगस्यातीवतीव्रप्रयत्नोश्चारणेन पूर्वस्य लघुतायां न च्छन्दोभङ्गो भवति । इदं च महाकविप्रयोगदर्शने भवति, न तु स्वेच्छया । अत एवाहु:
१२:
क्वचिदपि संयुक्तपरो वर्णों लघुरत्र दर्शनेन यथा । परिहसति चित्तधैर्य दारकटाक्षेषु निर्वृत्तम् ॥ इति ।
तीव्रप्रयत्ते तु गुरुतैव । "अथ प्रजानामधिपः प्रभाते” ( रघु. २-२ ) (१) इत्यादौ । तथा इं- हिं- उं-हुं- काराणामेकारौकारयोश्च केवलयोः सव्यअनयोर्वा प्राकृतादिभाषासु विभाषा गुरुता भवति । तदुक्तम्इ-हि-कारौ बिन्दुयुतौ श्रो शुद्धौ च वर्णमिलितौ च । रहयोर्व्यञ्जनयोगे सविभाषं सर्वमेव लघु ॥ इति । इ-हि-कारावित्युपलक्षणम् । इं- हिं- ए ओ एतेषूदाहरणम्माणिण ' माणाह काई फलमेत्री जे चरणमिलु कन्त । सहजे मुङ्गभुजइ मइ तह किं करिश्र मणिमन्त ॥ मानिनि ! मानैः किं फलमेष यच्चरणमिलितः कान्तः । सहजेन भुजङ्गमो यदि नमति तत्र किं क्रियते मणिमन्त्रैः ॥
'
त्र - हिं- ए - इत्येतेषां गुरुतायां दोहाच्छन्दसोऽधिकमात्रताऽऽपद्येत । रहव्यञ्जनसंयोगे तूदाहृतम् । तथा प्राकृतादिषु दीर्घस्यापि त्वरितपाठे लघुता । तथा द्वयोस्त्रयाणां वा वर्णानां त्वरितपाठे एकवर्णता भवति । तदुक्तम्
दीर्घाक्षरमपि जिह्वा ह्रस्वं चेत्पठति तदपि भवति लघु । star त्रीनथ वर्णानेकं जानीहि शीघ्रपठनाच्च ॥ इति ।
(१) पूर्णः श्लोकस्त्वित्थम् -
अथ प्रजानामधिपः प्रभाते
जायाप्रतिग्राहितगन्धमाल्याम् ॥
atre पीतप्रतिबद्धवत्सां
यशोधनो धेनुमृषेर्मुमोच ॥ (रघु० २- १)