________________
चतुर्थोऽध्यायः। चतुर्थोऽध्यायः।
विषमे यदि सौ सलगा दले
भौ युजि भाद् गुरुकावुपचित्रम् ॥१॥ भत्रयमोजगतं गुरुणी चे.
धुजि च नजौ ज्ययुतौ द्रुतमध्या ॥ २ ॥ सयुगात्सगुरू विषमे चे.
द्भाविह वेगवती युजि भागौ ॥ ३॥ ओजे तपरौ जरौ गुरुश्चे.
मसौ ज्गौग्भद्रविराड़ भवेदनोजे ॥४॥ असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद् गः ॥ ५ ॥ आख्यानको तौ जगुरू ग ओजे .
जतावनोजे जगुरू गुरुश्चेत् ॥ ६॥ जतो जगी गो विषमे समे चे.
तौ ज्गौ ग एषा विपरीतपूर्वा ॥ ७ ॥ सयुगात्सलघू विषमे गुरु
युजि नभौ भरको हरिणप्लुता ॥ ८ । अयुजि ननरला गुरुः समे.
न्जमपरवक्त्रमिदं ततो जरौ ॥९॥ अयुजि नयुगरेफतो यकारो
युजि च नजो जरगाश्च पुष्पिताग्रा ।। १० ।। वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः। पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ स्यादयुग्मके रजौ रयौ समे चे
जरौ जरौ गुर्यवात्परा मतीयम् ॥ १२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे चतुर्थोऽध्यायः ।
..............
......