________________
वृत्तरत्नाकरे
पञ्चमोऽध्यायः।
मुखपादोऽष्टभिर्वणः परे स्युर्मकरालयः क्रमाद् वृद्धैः ।। सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्य तदुदितममलमतिभिः पदचतुरूवाभिधं वृत्तम् ॥ १ ॥ प्रथममुदितवृत्ते विरचितविषमचरणभाजि । गुरुकयुगलनिधन इह सहित आङा लघुविरचितपदविततियतिरिति भवति पीडः ॥२॥ प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।। इरतदितरगदितमपि यदि च तुर्य । चरणयुगलकमविकृतमपरमिति कलिका सा॥३। द्विगुरुयुतसकलचरणान्ता मुखचरणगतमनुभवति च तृतीयः॥ अपरमिह हि लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ ४॥ प्रथममधिवसति यदि तुर्य, चरमवरणपदमवसितगुरुयुग्मम् ॥ निखिलमपरमुपरिगतमिति ललितपदयुक्ता,तदिदममृधारा॥५॥ सजसादिमे सलघुको च. नसजगुरुकैरथोद्गता ॥ ज्यध्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥ ६॥ . चरणत्रयं व्रजति लक्ष्म
यदि सकलमुद्गतागतम् ।। नौं भगौ भवति सौरभकं
चरणे यदीह भवतस्तृतीयके ॥ ७ ॥ नयुगं सकारयुगलंच
भवति चरणे तृतीयके ।। तदुदितमुरुमतिभिललितं
यदि शेषमस्य खलु पूर्वतुल्यकम् ।।