________________
वृत्तरत्नाकरेझेया सप्ताश्वषड्भिर्मरभनय.
युता म्लो गः सुवदना ॥ १०२ ॥ त्री रजो गलौ भवेदिहेदशेन लक्षणेन वृत्तनाम ॥ १०३ ।। नम्नैर्यानां त्रयेण त्रिमुनि
यतियुता स्रग्धरा कीर्तितेयम् ॥ १४ ॥ भ्रौ नरना रनावथ गुरुर्दिगर्क- .
विरमं हि भद्रकमिति ॥ १०५॥ पदिह नजौ भजो भ्जभलगा
स्तदश्वललितं हरार्कयतिमत् ।। १०६ ॥ मत्ताक्रीडा मौ नौ नौ नल्गिति
भवति वसुशरदशयतियुता ॥ १०७॥ भूतमुनीनैर्यतिरिह भतनाः स्भौ
भनयाश्च यदि भवति तन्वी १०८॥ क्रौञ्चपदा मौ स्भौ ननना न्गा.
विषुशरवसुमुनिविरतिरिह भवेत् ॥ १०९ । वस्वोशाश्वच्छेदोपेतं ममतनयुगनर
सलगैर्भुगङ्गविजृम्भितम् ॥ ११० ।। मो नाः षट् सगगिति यदि
नवरसरसशरयतियुतमपवाहाख्यम् ॥ १११ ।। यदि ह नयुगलं ततः सप्तरेफा
स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ।। ११२ ।। प्रतिवरणविवृद्धरेफाः स्युरार्णव
व्यालजीमूतलीलाकरोद्दामशङ्खादयः ।। ११३ ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो
दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ११४ ।।
इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे तृतीयोऽध्यायः ।।
erana