________________
छन्दोमअर्याम्
तृतीयः स्तबकः । विषमे यदि सौ सलगा दले भौयुजि भारूकावुपचित्रम् ॥ १ ॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ॥
मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुक चन्दनलिप्तम् ॥ गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम्
२४०
विषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवती स्यात् ॥ २ ॥ स्मरवेगवती व्रजरामा केशववंशरवैरतिमुग्धा ॥
रभसान्न गुरुन्गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥
अयुजि प्रथमेन विवर्जिता द्रुतविलम्बितता हरिणप्लुता ॥ ३ ॥ स्फुटफेनचया हरिणप्लुता बलिमनोज्ञतटा तरणेः सुता ॥ कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ अयुजि ननरला गुरुः समे तदपरवत्त्रमिदं नजौ जरौ ॥ ४ ॥ स्फुटसुमधुर वेणुगीतिभिस्तम परवक्तमवेत्य माधवम् ॥ मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमा ॥ अयुजि नयुग रेफतो यकारो
युजि तु नजौ जरगाश्च पुष्पिताग्रा ॥ ५ ॥ वैतालीयं पुष्पिताग्रां चेच्छन्त्यपरवत्तत्रकम् । कर किसलयशोभया विभान्ती कुचफलभारविनम्र देहयष्टिः || स्मितरुचिरविलासपुष्पिताग्रा वजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ अयुजोर्यदि सौ जगौ युजोः समरागौ यदि सुन्दरी तथा ॥ ६ ॥ यदवोचदुदीक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा ॥ अपि सहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ॥ श्रपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ इति भारal |
इति छन्दोमञ्जर्यमर्धसमाख्यस्तृतीयः स्तबकः ।