________________
द्वितीयः स्तबकः ।
प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ३ ॥
मुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत त्रिलोकैकनाथ प्रचितकपटसुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र ॥
सुधांशुच्छ्टोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार
२३९
चरणनखर
प्रणतजन परितापोप्रदावानलोच्छेदमेघ प्रसीद प्रसीद ॥ यत्र दृश्यते गुरोः परो लघुः
क्रमात्स उच्यते बुधैरशोक पुष्पमञ्जरीति ॥ ४ ॥ मूर्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोर शोकपुष्पमञ्जरीवतंसको गलेच कान्तकेसरोपक्लप्तदाम ॥ फुल्लनागकेसरादिपुष्परेणुरूषणं तनौ विचित्रमित्युपात्तवेश एष केशवः पुनातु नः सुपुष्पभूषितः सुमूर्तिमानिवागतो मधुर्विहर्तुमत्र || सगणः सकलः खलु यत्र भवे
तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् || ५ || विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशः कुचकुड्मलगो भ्रमरप्रकरेण यथावृतमूर्तिरशोक लता विलसत्कुसुम स्तवकः ॥ स नवीनतमालदलप्रतिमच्छवि बिभ्रदतीव विलोचनहारि वपुचपलारुचिरांशुकवल्लिधरो. हरिरस्तु मदीयहृदम्बुजमध्यगतः ॥ यत्र रेफः परं स्वेच्छया : गुम्भितः
स स्मृतो दण्डको मत्तमातङ्गलीलाकरः || ६ || हेमगौरे बसानोंऽशुके शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किता तारहारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा ॥ श्रञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासहासोर्मिकौतूहलैः कंसरङ्गाद्विगः पातु नश्चक्रपाणिर्गतिक्रीडया. मत्तमातङ्गलीलाकरः ॥ लघुर्गुरुर्निजेच्छया यदा निवेश्यते
तदैष दण्डको भवत्यनङ्गशेखरः ॥ ७ ॥
उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु ॥ इतिप्रमोदकारिणीं प्रियाप्रसादलक्षणां गिरं, समुद्गिरन्मुरारिरद्भुतां प्रदोषकालसमोल्लसन्मना मनोज्ञ केलिकौतुकी करोतु नः कृतार्थताम् ॥ इति छन्दोमञ्जर्यं समवृत्ताख्यो द्वितीयः स्तबकः ।