SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्तबकः । चतुर्थः स्तबकः । प्रथमे सौ यदि सौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनभगाः स्युरथो सजसा जगौ च भवतीयमुद्गता ॥ १ ॥ विललास गोपरमणीषु तरणितनया प्रभोद्गता ॥ कृष्णनयनच कोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ प्रथमे सजौ यदि सलौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनजलगाः स्युरथो सजसा जगौ च भवतीयमुद्गत। ॥ २ ॥ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ॥ क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ इति भारवाबुद्वताभेदः ॥ त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा ॥ जायते रनभगैर्ग्रथितं कथयन्ति सौरभमिदं तदीदृशम् || ३ || परिभूतफुल्लशतपत्र वनविसृतगन्धविभ्रमा । कस्य हृन्न हरतीह हरे ! मुखपद्मसौरभकला तवाद्भुता ॥ नयुगं सकारयुगलं च भवति यदि चेत्तृतीयके ॥ तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता ॥ ४ ॥ व्रजसुन्दरीसमुदयेन मुदितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्र विद्रुतम् ॥ भवत्यर्धसमं वक्तं विषमं च कदाचन ॥ तयोर्द्वयोरुपान्तेऽत्र छन्दस्तदधुनोच्यते ॥ ३१ २४१
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy