________________
२२०
छन्दोम अर्याम्
इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम ॥ ३ ॥
ममैवाऽच्युतचरिते यथाकाचिन्मुरारेर्वदनारविन्दं
सङ्क्रान्तमालोक्य जले नवोढा ॥
व्यक्तं सलजा परिचुम्बितं ततदर्थमेवाम्भसि निर्ममज्ञ ॥ मुखारविन्द जसुन्दरीणा
मामोदमत्युत्कटमुनिरभिः ॥
श्रहारि चित्तेन समं मुरारे
माजेभ्योऽपि मधुव्रतौघः ॥
तोयेषु तस्याः प्रतिबिम्बितासु
वजाङ्गनानां नयनावलीषु ॥
स्वबन्धुपङ्किभ्रमतोऽतिमुग्धा
गोष्ठी शफर्यो रचयाम्बभूवुः ॥ तथा ममैव गोपालशतकेवनेषु कृत्वा सुरभिप्रचारं
प्रकाममुग्धो मधुवासरेषु ॥ गायन्कलं क्रीडति पद्मिनीषु
मधूनि पीत्वा मधुसूदनोऽसौ ॥ एवमनयोर्नानाविधा श्रप्युपजातयो बोद्धव्याः । तथा वंशस्थ विलेन्द्रवंशयोरित्यमुदाहार्यम्इत्थं रथाश्वेभनिषादिनां प्रगे
गणो नृपाणामथ तोरणाद्वहिः ॥ प्रस्थान कालक्षमवेशकल्पना
कृतक्षणक्षेपमुदक्षताच्युतम् ॥ (१२- १) इति माघे |
जलगैर्गदिता सुमुखी ॥ ४ ॥ तरणिसुतातटकुञ्जगृहे वदनविधुस्मितदीधितिभिः || तिमिरमुदस्य मुखं सुमुखी
हरिमवलोक्य चुचुम्ब चिरम् ॥
मात्तौ गौ चेच्छालिनी वेदलोकैः ॥ ५ ॥