________________
वृत्तरत्नाकरे
इत्थमन्या रश्चतुर्थात् ॥ २८ ॥ नोऽम्बुधेश्चेन्नविपुला ॥ २९ ॥ तोऽब्धेस्तपूर्वान्या भवेत् ॥ ३० ॥ द्विगुणितवसुलघुरचलधृतिरिति ॥ ३१ ॥ मात्रासमकं नवमो ल्गान्तम् ॥ ३२ ॥ जो न्लावथाम्बुधेविश्लोकः ॥ ३३॥ तयुगलाद्वानवासिका स्यात् ॥ ३४॥ बाणाष्टनवसु यदि लश्चित्रा ॥ ३५ ॥ उपचित्रा नवमे परयुक्ते ॥ ३६॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ॥ 'अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ ३७॥ वृत्तस्य ला विना वर्णर्गा वर्णा गुरुभिस्तथा ॥ गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ ३८ ॥ शिखिगुणितदशलघरचितमपगतलघयगलमपरमिदमखिलम् ॥ सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ ३९॥ विनिमयविनिहितशकल
कलितपदविततिविरचितगुणनिचया ॥ श्रुतिसुखकृदियमपि जगति त्रि . जशिर उपगतवति सति भवति खजा ॥ ४० ॥ अष्टावधे गा द्यभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ॥ दलमपरपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥४१॥ त्रिगुणनवलघुरवसितिगुरुरिति दलयुगकृततनुरतिरुचिरा ॥ ४२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे द्वितीयोऽध्यायः !
तृतीयोऽध्यायः।
गुः श्रीः॥ १॥ गौ स्त्री ॥२॥ मो नारी॥३॥ रो मृगी ॥४॥