SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ! द्वितीयोऽध्यायः । सैलध्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ॥ यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ ४ ॥ उभयार्धयोर्जकारौ द्वितीयतुय गमध्यगौ यस्याः || चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ५ ॥ आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ॥ शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ आर्याप्रथमोदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ॥ दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ ८ ॥ आर्याद्वितीयकेऽर्धे यद् गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि दलयोरुपगीति तां मुनिर्ऋते ॥ ९ ॥ आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ॥ सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदस संयुक्ता ॥ १० ॥ आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् ॥ इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ ११ ॥ षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥ १२ ॥ पर्यन्ते यौं तथैव शेषमौपच्छन्दसिकं सुधीभिरुतम् ॥ १३ ॥ आपातलिका कथितेयं भाद् गुरुकावथ पूर्ववदन्यत् ॥ तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ १७ ॥ यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ १८ ॥ अस्य युग्म रचिताऽपरान्तिका ॥ १९ ॥ अयुग्भवा चारुहासिनी ॥ २० ॥ १४ ॥ १५ ॥ १६ ॥ ari नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २१ ॥ युजोर्जेन सरिद्भर्तुः पथ्या वक्त्रं प्रकीर्तितम् ॥ २२ ॥ ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २३ ॥ चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः ॥ २४ ॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २५ ॥ सैतस्याऽखिलेष्वपि ॥ २६ ॥ भेनाधितो भाद्विपुला ॥ २७ ॥ 1 १७
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy