SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ . श्रुतबोधः। यस्यां प्रिये ! प्रथमकमक्षरद्वयं .. .. तुर्य तथा गुरु नवमं दशान्तिमम् ॥ सान्त्यं भवेद्यतिरपि चेयुगग्रहैः .... ... सालक्ष्यताममृतलते ! प्रभावती ॥ ३४ ॥ आद्यं चेत्रितयमथाष्टमं नवान्त्यं - द्वावन्त्यौ गुरुविरता सुभाषिते ! स्यात् ।। विश्रामो भवति महेशनेत्रदिग्भि विज्ञेया ननु सुदति ! प्रहर्षिणी सा ॥ ३५ ॥ आद्यं द्वितीयमपि चेद् गुरु तच्चतुर्थ यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् ॥ अष्टाभिरिन्दुवदने ! विरतिश्च षभिः . .. कान्ते ! वसन्ततिलकां किल तां वदन्ति ॥ ३६ ॥ प्रथममगुरुषट्कं विद्यते यत्र कान्ते ! तदनु च दशमं चेदक्षरं द्वादशान्त्यम् ॥ करिभिरथ तुरङ्गैर्यत्र कान्ते ! विरामः - सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥ ३७ ॥ सुमुखि ! लघवः पञ्च प्राच्यास्ततो दशमान्तिकं तदनु ललितालापे ! वर्णौ तृतीयचतुर्थको । प्रभवति पुनर्योपान्त्यः स्फुरत्कनकप्रभे ! ___ यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥३८॥ यदि प्राच्यो हस्वः कमलनयने ! पञ्च गुरव स्ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि ! लघवः ॥ . त्रयोऽन्ये चोपान्त्याः सुतनु ! जघनाभोगसुभगे ! सरु यस्यां भवति विरतिः सा शिखरिणी ॥३९॥ द्वितीयमलिकुन्तले ! गुरु षडष्टमद्वादशं चतुर्दशमथ प्रिये ! गुरु गभीरनाभिहदे !॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy