________________
श्रुतबोधः। सपञ्चदशमान्तिमं तदनु यत्र कान्ते ! यति
___गिरीन्द्रफणिभृत्कुलैर्भवति सुभ्र ! पृथ्वी हि सा ॥४०॥ चत्वारः प्राक्सुतनु ! गुरवो द्वादशैकादशौ चे
न्मुग्धे ! वर्णौ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ । तद्वच्चान्त्यो युगरसहयैर्यत्र कान्ते ! विरामो
___ मन्दाक्रान्तां प्रवरकवयस्तन्वि ! तां सङ्गिरन्ते ॥४१॥ आद्यं यत्र गुरु त्रयं प्रियतमे ! षष्ठं ततश्चाष्टमं
सन्त्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः ॥ मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने !
तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ॥४२॥ चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि
द्वौ तद्वत्षोडशाद्यौ मृगमदतिलके ! षोडशान्त्यौ तथान्त्यौ। रम्भास्तम्भोरुकान्ते ! मुनिमुनिमुनिभिदृश्यते चेद्विरामो
बाले! वन्द्यैः कवीन्द्रैः सुतनु ! निगदिता स्रग्धरा सा प्रसिद्धा ॥४३॥
इति श्रीकालिदासविरचितः श्रुतबोधः सम्पूर्णः ।