________________
२१०
श्रुतबोधः। धनपीनपयोधरभारनते ! !
ननु तोटकवृत्तमिदं कथितम् ॥ २७ ॥ यदाद्यं चतुर्थं तथा सप्तमं स्या
तथैवाक्षरं हस्वमेकादशाद्यम् ॥ शरच्चन्द्रविद्वेषिवक्त्रारविन्दे.!
- तदुक्तं कवीन्द्रैर्भुजङ्गप्रयातम् ॥ २८॥ अयि ! कृशोदरि ! यत्र चतुर्थकं
गुरु च सप्तमकं दशमं तथा ॥ विरतिगं च तथैव विचक्षणै
द्रुतविलम्बितमित्युपदिश्यते ॥ २९॥ यदि तोटकस्य गुरु पञ्चमकं
विहितं विलासिनि ! तदक्षरकम् ॥ रससङ्ख्यकं गुरु न चेदबले !
प्रमिताक्षरेति कविभिः कथिता ॥३०॥ प्रथमाक्षरमाद्यतृतीययो
द्रुतविलम्बितकस्य हि पादयोः ॥ यदि नास्ति तदा कमलेक्षण ! __ भवति सुन्दरि ! सा हरिणीप्लुता ॥ ३१ ॥ उपेन्द्रवज्राचरणेषु सन्ति चे. दुपान्त्यवर्णा लघवः परे कृताः ॥ मदोल्लसद्भूजितकामकार्मुके!
: वदन्ति वंशस्थविलं बुधास्तदा ॥ ३२ ॥ यस्यामशोकाङ्करपाणिपल्लवे !
वंशस्थपादा गुरुपूर्ववर्णकाः ।। तारुण्यहेलारतिरङ्गलालसे !
तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३३ ॥