SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०६ श्रुतबोधः। यदीन्द्रवज्राचरणेषु पूर्वे .भवन्ति वर्णा लघवः सुवर्णे ! ॥ अमन्दमाद्यन्मदने ! तदानी मुपेन्द्रवज्रा कथिता कवीन्द्रैः ॥ २१ ॥ यत्र द्वयोरप्यनयोस्तु पादा ... भवन्ति सीमन्तिनि ! चन्द्रकान्ते !॥ विद्वद्भिराद्यैः परिकीर्तिता सा... प्रयुज्यतामित्युपजातिरेषा ॥ २२ ॥ आख्यानकी सा प्रकट कृतार्थे ! . यदीन्द्रवज्राचरणः पुरस्तात ।। उपेन्द्रवज्राचरणास्त्रयोऽन्ये मनीषिणोक्ता विपरीतपूर्वा ॥ २३ ॥ आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथान्तिमम् ।। दीर्घमिन्दुमुखि ! यत्र जायते तां वदन्ति कवयो रथोद्धताम् ॥ २४ ॥ अक्षरं च नवमं दशमं चेत् . व्यत्ययाद्भवति यत्र विनीते ! ॥ प्रोक्तमेणनयने ! यदि सैव .. स्वागतेति कविभिः कथिताऽसौ ॥ २० ॥ हस्वो वर्णः स्यात्सप्तमो यत्र बाले ! . तद्वद्विम्बोष्ठि ! न्यस्त एकादशायः ॥ बाणैर्विश्रामस्तत्र चेद्वा तुरङ्ग-.. __नाम्ना निर्दिष्टा सुश्रु ! सा वैश्वदेवी ॥ २६॥ संतृतीयकषष्ठमनङ्गरते ! नवमं विरतिप्रभवं गुरु चेत् ।।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy