________________
२०७
श्रुतबोधः। पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ॥ षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥ ११ ॥ आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम् ॥ स्याद् गुरु चेत्तत्कथितं माणवकाक्रीडमिदम् ॥ १२ ।। द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा ॥ तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥ १३ ॥ सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः ।।
विद्वद्वन्दैवीणावाणि ! व्याख्याता सा विद्युन्माला ॥ १४ ॥ तन्वि ! गुरु स्यादाय चतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यम् ।। इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला ॥ १५ ॥ चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे ! ॥ छन्दसि दक्षा ये कवयस्तन्मणिबन्धं ते ब्रुवते ॥ १३ ॥ मन्दाक्रान्ताऽन्त्ययतिरहिता सालङ्कारे ! यदि भवति सा ॥ तद्विद्वद्भिध्रुवमभिहिता ज्ञेया हंसी कमलवदने ! ॥ १७ ॥ हस्त्रो वर्णो जायते यत्र षष्ठः .
कम्बुग्रीवे ! तद्वदेवाष्टमान्त्यः ॥ . विश्रामः स्यातन्वि ! वेदैस्तुरङ्गै. . .
__स्ता भाषन्ते शालिनी छान्दसीयाः ॥ १८ ॥ आद्यचतुर्थमहीननितम्बे !
सप्तमकं दशमं च तथान्त्यम् ॥ यत्र गुरु प्रकटस्मरसारे !
तस्माथितं. ननु दोधकवृत्तम् ॥ १९ ॥ यस्यास्त्रिषट्सप्तममक्षरं स्याद् .
हस्वं सुजङ्घ ! नक्मं च तद्वत् ॥ गत्या विलज्जीकृतहंसकान्ते ! . . ..तामिन्द्रक्वां ब्रुवते कवीन्द्राः ॥ २० ॥