________________
१६
वृत्तरत्नाकरे
युक्समं विषमं चायुस्थानं सद्भिर्निगद्यते ॥ सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १३ ॥ अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ॥ तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १४ ॥ प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् ॥ द्वितीयस्तुर्यवद्दत्तं तदर्धसममुच्यते ॥ १५ ॥ यस्य पादचतुष्केsपि लक्ष्म भिन्नं परस्परम् ॥ तदाहुर्विषमं वृत्तं छन्दः शास्त्रविशारदाः ॥ १६ ॥ आरभ्यैकाक्षरात्पादादेकैकाक्षरवद्धितैः ॥ पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १७ ॥ तदूर्ध्व चण्डवृष्टादिदण्डकाः परिकीर्तिताः ॥ शेषं गाथास्त्रिभिः षभिश्चरणैश्चोपलक्षिताः ॥ १८ ॥ उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्किरेव च ॥ १९ ॥ त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ॥ शकवरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ २० ॥ धृतिश्चाऽतिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥ २१ ॥ इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्ताऽनुपूर्वकम् ॥ २२ ॥
इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ज्ञा भिधानो नाम प्रथमोऽध्यायः ॥
द्वितीयोऽध्यायः ।
******
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ १ ॥ षष्ठे द्वितीयलात्परके न्ले मुखलाश्च सयतिपदनियमः ॥ चरमेऽर्थे पञ्चमके तस्मादिह भवति, षष्ठो लः ॥ २ ॥ त्रिवंशकेषु पादो दलयोराधेषु दृश्यते यस्याः ॥ पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ३ ॥