________________
षष्ठोऽध्यायः ।
१
S 1 S 1
C
Mur
३ ५ १३
एवं मात्रावृत्तेषु सर्वेषु ज्ञेयम् । बह्नङ्कवृद्धिप्रसङ्गान्तु नोदाहृतमस्मा
भिः । यदाहुः
नष्टं सर्वाः कलाः कार्या श्रङ्गन्यासस्तु पूर्ववत् । पृष्टोऽङ्कः शेषके लोप्यः परोऽप्यङ्कोऽत्र लुप्यते ॥ यस्य यस्य भवेल्लोपो व्युत्क्रमेण पुनः पुनः । तदधो गुरुतामेति परया कलया सह ॥ इति । उद्दिष्टस्य रीतेः पूर्वमुक्तत्वापूर्ववदिति । उद्दिष्टवदित्यर्थः । श्रर्याया मात्रावृत्तत्वादनया रीत्या नष्टसिद्धावपि तन्मात्रविषयो लघुरूपाय श्रार्याप्रकरणे प्रसङ्गादस्माभिरुक्तः ॥ ४ ॥
इति नष्टम् ॥
श्रथोद्दिष्टम् ।
१४६
अथ प्रस्तारशोधनायोपयुक्तमुद्दिशति
उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।। लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ ५ ॥ श्राद्यादक्षरादारभ्योपर्याद्यादेकाङ्कादारभ्य द्विगुणाद्विगुणानङ्कानुत्तरोत्तरं लिखेत् । तत्र लेखने कृते सति लघुलेखोपरिस्था येऽङ्कास्तैसि - श्रितैर्यथास्थानं योजितैरेकेनाधिकेन सहितरुद्दिष्टं भवेदिति श्राद्यद्विगुणशब्दयोरावृत्त्या व्यवहितान्वयेन च व्याख्येयम् । उपरीत्युपलक्षणम्। अधोलेखनेऽप्यक्षतेः । यथा - त्र्यक्षरे प्रस्तारो ऽन्तगुरुर्भेदः कतिथ इति प्रश्ने न्यासः -
२ ४ S
1
अत्र लघुस्थैकाङ्कव्यङ्कमेलने त्रय एकसहिताश्चत्वारो भवन्ति, ततश्च तुर्थभेदं कथयेत् । एवं चतुरक्षरे श्राद्यन्तगुरुः कतिथ इति प्रश्ने न्यासः
१ २ ४ ८ S I S
-
श्रत्र लघुस्थाभ्यां द्व्यङ्कचतुरङ्काभ्यां सैकाभ्यां सप्त भवन्ति, ततः सप्तमोऽयं भेदः । एवं सर्वत्र ।
इति समोद्दिष्टम् ॥'