SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेत्वात्यागे चतुर्थता। नष्टसिद्धिस्तु संवलितसङ्ख्ययैवेत्युक्तं प्राक , एवं सर्वत्रापि। इत्यर्धसमनष्टम् ॥ अथ विषमनष्टम् । विषमाणां नष्टे तु व्यक्षरविषमवृत्तस्य चतुर्थो भेदः कीद्वगिति प्रश्ने उक्तविधाविधाने ॥ssssss अयं चतुर्थः । अत्रापि समाधसमसंवलनेन चतुर्थता, शुद्धविषमभेदेषु तुप्रथमस्य समाधसमतयात्यक्तत्वात्तृतीयता । एवं सर्वेष्वर्धसमविषमेषु योज्यम् । इति विषमनष्टम् ॥ अत्र मदीयः सङ्ग्रहश्लोकःपृष्टाके विषमे समे गुरुलघू युग्मे तथैकाधिका युग्मेऽर्धे विषमे समे गुरुलघू भूयोऽवशिष्टेऽधिते ॥ तद्वन्न्यस्य विवक्षितान्गुरुलघून्यावद्विध्यादिदं श्रीरामेश्वरभट्टसूनुरकरोन्नष्ट विधामीदृशीम् ॥ अथ मात्रावृत्ते नष्टम् ।। तत्र लाघवार्थ षण्मात्रप्रस्तारे उदाहरणमुच्यते । षण्मात्रप्रस्तारेषु सप्तमस्थाने कोशो गणोऽस्तीति प्रश्ने षडपि कलास्तावत्पृथक्स्थापनीयाः। तत्र प्रथमकलोपर्येकाङ्को देयः, द्वितीयकलायां द्वयङ्क एव, एकाकात्पूर्व कस्यचिदकस्याभावेनैकीकरणासम्भवात् । एककलोपर्यवं द्विती. यकलोपर्यतचैकीकृत्य व्यङ्घ तृतीयकलोपरि, द्वयव्यङ्कावेकीकृत्य पञ्चाङ्क चतुर्थोपरि, व्यङ्कपञ्चाङ्कावेकीकृत्याष्टाङ्क पञ्चमोपरि, पञ्चाष्टौ चैकीकृत्य त्रयोदशाएं पष्ठोपरि विन्यसेत् । यथा १ २ ३ ५ ८ १३ एवं सर्वत्र पूर्वपूर्वकलाद्वयोपरिस्थाङ्कमेकीकृत्य परपरकलासु न्यसेत् । एवं कृते पृष्टाङ्कमन्तिमकलोपर्यङ्के लोपयेत् । अवशिष्टाङ्कऽज्य वहितपूर्वपूर्वतरमेवाईं यथासम्भवं लुम्पेत् । तत्र यस्य यस्याङ्कस्य लोपो भवति तत्तद्धस्तनकलास्वग्रिमकलामादाय गुरुतामेति । एवं यावत्सम्भवं कुर्यात् । प्रस्तुते पृष्टं सप्ताङ्क त्रयोदशाङ्के विलोप्यावशिष्टषडके. ऽष्टौ न लुप्यन्त इति पञ्च लोपयेत् , अवशिष्टे एकाते त्रयो द्वौ वान लुप्यते इति एकाङ्कस्य लोपे शून्यता । एवं कृते पञ्चमैकाङ्कलुप्तत्वात्तदधस्तने मात्र चतुर्थप्रथमे पञ्चमद्वितीयमाने श्रादाय गुरुतां गच्छतः । एवं कृते सिद्धः षट्कलः सप्तमप्रस्तारः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy