________________
नारायणभट्टीसहित वृत्तरत्नाकरे
श्रथार्धसमष्टिम् । अर्धसमेऽपि चतुरक्षराधें 5515. अयं प्रस्तारः किंसङ्ख्याक इति
प्रश्ने न्यासः
१५०
Mode
१
S
५
४ ५
S 1 S
लघुस्थे चतुरङ्के सैकं पञ्चमो भेदः समार्धसमसंसृष्टतायाम्, शुद्धार्धसमेषु पूर्वन्यायेन चतुर्थः । एवं सर्वत्र । इत्यर्धसमोद्दिष्टम् ॥
अथ विषमोदिष्टम् ।
३२४८ १६३२ ६४ १२८
विषमेष्वपि यक्षरपादकविषमवृत्ते ।।ऽऽऽऽऽऽ श्रयं भेदः कतम इति प्रश्ने न्यासः । यथा ।। 55 5 5 5 5 अत्र लघुस्थावेकद्वयङ्कौ सैकौ चत्वारस्तावत्सङ्ख्याकं समार्धसममेलनेन जानीयात्, शुद्धविषमेषु तु तृतीयम् । एवं सर्वेषु विषमेषु ज्ञेयम् । अत्र सङ्ग्रहश्लोक:
प्रथमाद् द्विगुणानङ्कान्प्रस्ताराद्यादुपर्यधो वास्येत् । लघुगर : सैकैर्मिलितैरुद्दिमुद्दिष्टम् ॥
इति विषमोद्दिष्टम् ॥
अथ सूत्रोक्कोद्दिष्टप्रकारः ।
सू तृद्दिष्टे प्रकारान्तरमुक्तम् । यद्वृत्तं जिज्ञासेत्तत्तद्भूमौ प्रस्तार्य तन्मध्यस्थलघुषु योऽन्त्यो लघुस्तदुपर्यधो वैकाङ्क लिखित्वा तत्रैव तं द्विगुणयेत् । ततस्तत्पूर्वस्मिन्गुरौ लघौ वा तमङ्क द्विगुणितं कृत्वा पूर्ववन्यसेत् । यदा त्वेवंप्रकारे क्रियमाणे गुरुमापद्यते सख्या तदा तन्मध्ये एकं त्यक्त्वा पुनरुत्तरोत्तरं द्विगुणितं कृत्वा गुरुस्थाने एकं त्यक्त्वो पुनर्द्विगुणनादिक्रमेण यावत्प्रस्तारपूर्ति कुर्यात् एवं कृते या सख्या सम्पद्यते तावतिथं तद् वृत्तं जानीयात् । यथा चतुरक्षरे गुरुलघू द्वौ गुरू चेति वृत्तं कतिथमिति प्रश्ने न्यासः -
३ २
S 1 S S
४ १
अत्र लघ्वधः सङ्ख्याङ्कं द्विगुणयेत् तं च पूर्वस्माद्वरोधो द्विगुणितं चतुरङ्कं विलिख्य गुरुस्थसख्यात्वादेकं जह्यात् । श्रवशिष्टस्त्र्यङ्कस्तावतिथं वृत्तमिति ।
इति सूत्रोक्कोद्दिष्टप्रकारः ॥