________________
पञ्चमोऽध्यायः।
अथाभीरः। यत्र पादे जगणान्ता एकादशमात्राः स आभीरः । यथा
सुन्दरि गुजरणारि लोश्रण दीहबिसारि । पीणपोहरभार लुल्लई मोत्तिहार ॥ (सुन्दरी गुर्जरनारी लोचनं दीर्घविसारि । पीनस्तनभारे लोलते मौक्तिकहारः ॥)
इत्याभीरः॥
अथ दण्डकाहलः। चत्वारश्चतुर्मात्रास्ततः षण्मात्रस्ततश्चतुष्कलौ गुरुश्चेति द्वात्रिंशन्मा. त्रा यदोहण्डकाहलः । सर्वा अस्मिन्मात्राः १२८ । यथारामह भग्गन्ता दिगन्तलगन्त परिहरि हागअघररमणी,
लोरहि भरु सरबरु पत्रपरुपरिकरु लोटह पडिअतनु धरणी। पुणु उदाह संभरि करदत्तग्गुलिबालतणकरजमलकरे,
कासीसर रामा णेहलुकामा करु मात्रा पुण थप्पि धरे ॥ (राजानो भग्ना दिगन्तरलग्नाः परिहत्य हयगजगृहरमणी, रोदनैर्मृत्वा सरोवरं पादपतितपरिकरा लोटन्ते पतिततनवो धरण्याम् । पुनरुत्तिष्ठन्ति सम्भृत्य करदत्ताङ्गलिबालतनयकरयमलधराः, . काशीश्वरो राजा स्नेहलकायः कृत्वा मायां पुनः स्थापयित्वा धृतवान्॥)
इति दण्डकाहलः॥
अथ दीपकम् । प्रादौ गुर्वन्तश्चतुष्कलस्ततो गुर्वन्तः पञ्चकलस्तत एको लघुरित्येवं पादघटितं दीपकम् । यथा
जसु हत्थ करबाल बीपक्खकुलकाल । सिर सोह बरछत्त संपुराण ससिमत्त ॥ (यस्य हस्ते करवालो बिपक्षकुलकालः । शिरसि शोभते वरच्छत्रं सम्पूर्णशशिवत् ॥)
इति दीपकम् ॥
अथ सिंहावलोकः । यद्यादौ चतुष्कलसगणौ ततः षट्कला गुरुश्चेति षोडशमात्रापादः सिंहावलोकः । यथा
हणु उज्जरगुजरराम दलं .. दलदलिन चलि मरहट्टबलम् ॥