________________
नारायणभट्टीसहितवृत्तरत्नाकरेबलमोलिप्रमालपराअकुला कुलउजलकलचुलिकरणफुला ॥ (हतमुज्ज्वलगुर्जरराजदलं, दरदलितचलितं महाराष्ट्रबलम् । बलमोटितमालवराजकुलः कुलोज्ज्वलः कलचरिः कर्णः स्फुरति ॥) इत्यलम् ।
इति सिंहावलोकः ॥ इति श्रीमद्भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचितायां वृत्तरत्रा
करव्याख्यायां पञ्चमोऽध्यायः ॥
LOOOOOOOषष्ठोऽध्यायः।
एवं समादिवृत्तत्रयमभिधायेदानीं तेषामुत्पत्तिप्रदर्शनायाऽनुक्तानां च वृत्तानां कविप्रयोगेषु दृश्यमानानों सद्भावोपपत्तये प्रस्तारादयः षट्प्रत्यया व्याख्यातव्याः । प्रतीयते सङ्खयादिकमेभिस्ते प्रत्ययाः । सम्भावितेषु वृत्तेषु विश्वासापरपर्ययप्रत्ययख्यापकत्वाद्वा । ते च प्रस्ताराद्याः षट् । तदुक्तम्
प्रस्तारो नष्टमुद्दिष्टमेक यादिलगक्रिया ॥
सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः॥१॥ तत्र नष्टोहिष्टादीनां प्रस्तारशानाधीनत्वात्प्रस्तारं तावदाह
पादे सवेंगुरावाद्यालघु न्यस्य गुरोरधः॥ यथोपरि तथा शेष भूयः कुर्यादमुं विधिम् ॥२॥ प्रस्तार्यवृत्तिजातिपादस्थवर्णसङ्ख्याकसर्वगुरौ पादे लिखिते सति तत्राद्यात्प्रथमाद् गुरोरधो लघु स्थापयेत् । प्रथमत्वं च गुर्भपेक्षया न तु वर्णाऽपेक्षया । तथात्वे हि द्वितीयभेदे आद्यगुरोरभावोत् तृतीयभेदानुपपत्तेः । तं लघु न्यस्य यथोपरि पङ्क्तौ तथैवाधस्तनाधस्तनपक्तौ, शेषं पादवर्णसङ्ख्यापूर्त्यवधि द्वितीयादिकं गुरुं लघु वा लिखेत् , यत्रोपरि गुरुस्तत्राधस्तादपि गुरुयंत्रोपरि लघुस्तत्राधस्तादपि लघुरित्यर्थः । भूयः पुनरमुं पूर्वोक्तं विधि लेखनरूपं कुर्यात्तृतीयादिपङ्क्तौ गुरुमध्ये आद्यगुरोरधो लघुः शेषं चोपरिवदेवेत्यर्थः ॥२॥ एवं सति तृतीये भेदे आद्यस्थानस्य शन्यत्वात् तत्र किं लेख्यमित्यत