SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४० नारायणभट्टीसहितवृत्तरत्नाकरे अथ चलिका। ___ यदि दोहाच्छन्दसि प्रत्यर्धं लघुगुरुद्वयरूपाः पञ्चकला अधिका दीयन्ते, तथा दोहाच्छन्दसो मात्राः ४८ अधिकाश्च १०, एवं अष्टपञ्चाशन्मात्रा भवन्ति तदा चूलिका नामच्छन्दः। यथा रात्रा लुद्ध समाज खल बहु कलहारिणि सेबक धुत्तउ । जोबण चाहसि सुक्ख जह परिहर घरजण बहुगुणजुत्तउ ॥ (राजा लुब्धः समाजः खलः वधूः कलहकारिणी सेवको धूर्तः । जीवने वाञ्छसि सुखं यदि परिहर गृहजनं बहुगुणयुक्तमपि ॥) इति चूलिका ॥ अथ सौराष्ट्रा । व्यत्यस्तार्धा दोहैव सौराष्ट्रा । यथा सो माणि पुणमन्त जासु भत्त पण्डिअ तनश्र । जासु घरिणि गुणमन्ति सो वि पुहवि सगाहणिलन ॥ (स मान्यः पुण्यवान्यस्य भक्तः पण्डितस्तनयः। यस्य ग्राहणी गुणवती सोऽपि पृथिव्यां स्वर्गनिलयः ॥) इति सौराष्ट्रा॥ अथ काहलिः। सगणभगणचतुर्लघवो गणा गुरश्चैको यत्र प्रतिपदं एकादशाक्षरश्चतुर्दशमात्रकश्च स काहलिः । यथा उचउत्थाण बिमलघरा तरुणी घरिणी विणअपरा। बित्तकपूरलमुद्दघरा वरिसा समत्रा सुक्खकरा ॥ (उच्चोत्थानकं विमलं गृहं तरुणी गृहिणी विनयपरा । वित्तपूरितं मुद्रागृहं वर्षासमयः सुखकरः ॥) इति काहलिः ॥ अथ मधुभारतम् । यत्र जगणान्तौ चतुर्मात्रौ (गणौ) प्रतिपादं तन्मधुभारतम् । यथा जसु चन्द सीस पिन्धणन दीस । सो संभु पेउ महासुख देउ ॥ । (यस्य चन्द्रः शीर्षे परिधानं च दिशः। स शंभुः पातु महासुखं ददातु ॥) इति मधुभारतम् ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy