________________
पञ्चमोऽध्यायः।
१३५
णाचन्ता कन्ता उच्छब्बे ताले भूमीकम्पले। जा दिद्वे मोक्खा पाबिज सो तुह्माणं सुक्ख दे॥ (जाया यस्यार्धाङ्गे शीर्षे गङ्गा लोलते। सर्वाशाः पूरयन्ती सर्वदुःखानि त्रोटयन्ती॥ नागराजहारो दिशो वासांसि वसानः । वेताला यत्सङ्गे नष्टदुष्टान् नाशयन्तः ॥ नृत्यन्तः कान्तं तालकम्पितभूमयः।
यद्दष्टे मोक्षः प्राप्यते स युष्माकं सुखं ददातु ॥ अथ षटपदभेदाः। तत्र काव्ये चतुश्चत्वारिंशद् गुरुवः, उल्लाले च षड्विंशतिः । एवं मिलित्वा सप्ततिर्मुरवो द्वादश च लघवो यत्र स द्वयशोत्यक्षरो अजयनामा प्रथमो भेदः, ततः सर्वलघुपर्यन्तमेकैकगुरुहासे लघुद्वयप्रक्षेपेणैकैकवर्णवृद्धौ एकसप्ततिरजयाद्या भेदा भवन्ति । यथाअजय-विजय-वलि-वर्ण-वीर-वेताल-बृहन्नल-मर्कट-हरि-हर-ब्रह्म-इन्दु-चन्दन-शुभंकर-शाल-सिंह-शार्दूल-कूर्म-कोकिल-खर-कुञ्जर-मदन-मत्स्य-सारङ्ग-शेष-सारस-पयोधर-कुन्द-कमल-कुन्द-वारण-शरभ-जङ्गम-शर-सुशरमसर-सारस-सरस--मेरु-सकल-मृग-सिद्ध-बुद्धि--कलकल--कमलाकरधवल-मृतक-ध्रुव-वलय-किनर-शक-जन-मेधाकर-ग्रीष्म-गरुड-शशिसूर्य-शल्य-नर-तुरग-मनोहर-गगन-रत्न-नव-हीर-भ्रमर-शेखर-कुसुमाकरदीप-शत-वसु-शब्दाः। तथा च अजये वणोः ८२, गुरवः ७० लघवः १२। अन्त्ये शब्दे लघवः १५२।
इति षट्पदप्रकरणम् ॥
अथ पज्झटिका। प्रतिपादं चत्वारश्चतुष्कला गणास्तत्रान्तिमो जगण एव । एवं चतुभिः पादैश्चतुःषष्टिमात्राकं पज्झटिकाच्छन्दः । यथा
जे गलिश्र गोलाहिबइ राउ .
उद्दण्ड प्रोडु जसुभत्र पलाउ। उरु बिक्कम बिक्कम जिणि जुज्झ
ताकरण परकम को ण बुझ ॥ (येन गंजितो गौडाधिपती राजा
उद्दण्ड ओड़ो यस्य भयेन पलायितः॥ गुरुविक्रमो विक्रमो जितो युद्ध तत्कर्णपराक्रमं को न बुद्ध्यते ॥)
इति पज्झटिका ॥