________________
नारायणभट्टीसहित वृत्तरत्नाकरे
1
यथा फुल्लसितकमलं यथा श्रीखण्डः खण्डीकृतः ॥ यथा गङ्गाकल्लोलो यथा रोषाणितं रूप्यम् । यथा दुग्धवरशुद्धफेनं उद्गम्य तपति ॥ प्रियपादप्रसाददृष्टिपतितो निभृतं हसति यथा तरुणीजनः । वरमन्त्रिन् ! चण्डेश्वर ! तथा तव कीर्ति दृष्ट्वा हरिब्रह्मा भणति ॥ ) काव्यस्वरूपं स्वादावन्ते च षट्कलो मध्ये त्रयश्चतुष्कलास्तृतीयो जो लौ वेति । इदं स्वतन्त्रस्य काव्यच्छन्दसः करणे । षट्पदे तूक्तैव विधा ज्ञेयाः । काव्यस्य भेदाः पञ्चचत्वारिंशत् । तत्र यत्र षण्णवतिर्लघूनां न तु गुरुः स शक्रः । तत एकैकगुरुप्रक्षेपेण लघुद्रयद्वयहासे च शम्भ्वाद्या भृङ्गान्ता भेदा भवन्ति । तथा च भृङ्गे अष्टौ लघवः प्रतिपादमेकादश लघुप्रकारेण समुदिते चतुश्चत्वारिंशद् गुरवस्ततो न हासः । यथाशक शम्भु शुर - गण्ड-स्कन्ध- विजय-दर्प-ताराङ्क - समर सिंह- शीर्ष - उत्तेजफणि- रक्षः- प्रतिधर्म - मराल- मृगेन्द्र- दण्ड- मर्कट- अनुबन्ध - वासण्ठ-कण्ठमयूर - बन्ध-भ्रमर-मित्र- महाराष्ट्र- बलभद्र-राज- वलित-मयूख- मन्थान-बलिमोह- सहस्राक्ष-वाल- दर्पित-सरभ- दम्भ उद्दम्भ-वलिताङ्क - तुरग हारहरिण अन्ध-भृङ्गेति । तत्र शक्रस्योदाहरणम् -
जसु कर फणिबर वलअ तरुणिवर तणुमह बिलसइ । णण अणल गल गरल विमल ससहर सिर बिसइ ॥ सुरसरि सिरमह वह सालमणदुरितदलणकर । हसि ससहरहर हरउ दुरित तुन दिसउ श्रभनवर ॥ (यस्य करे फणिपतिर्वलयस्तरुणीवरा तनुमध्ये विलसति । नयने अनलो गले गरलं विमलः शशधरः शिरसि निवसति ॥ सुरसरिच्छिरोमध्ये वहति सकलमनोदुरितदलनकरः । हसित्वा शशधरधरो हरतु दुरितं तव दिशत्वभयवरम् ॥) पपदे णायादौ पत्वादयो दोषा ग्रन्थान्तरादवसेयाः, विस्तरभयातुन प्रपञ्च्यन्ते । द्वात्रिंशल्लध्ववधिकस्य काव्यस्य विप्रजातिः, ततश्चत्वारिंशल्लध्ववधि क्षत्रियजातिः, ततोऽष्टाचत्वारिंशल्लघ्ववघि वैश्यजातिः श्रवशिष्टः शुद्र इति जातिभेद: । उल्लाललक्षणं तुaagrat त्रिकलः षट्कलस्ततः । चतुष्कलोऽयं त्रिकल उल्लाले लक्षणं सदा ॥ इति ।
तत्र सर्वगुरुः षट्पदो यथा
१३४
-
जाना जा श्रद्धङ्ग सीस गङ्गा लोलन्ती । सव्वासा पूरन्ति सब्ब दुक्खा तोलन्ती ॥ श्राहार दीस बासा बासन्ता । वेत्राला जा सङ्ग गट्ट दुट्ठा गासन्ता ॥