________________
पञ्चमोऽध्यायः ।
१२६
एकगुर्वाधिक्येन द्वात्रिंशत् तदा गाहिनी । श्रर्धवैपरीत्ये च सिंहिनी । क्रमेणोदाहरणे
मुञ्चहि सुन्दरि ! पाअं श्रपहि हसिऊण सुमुहि ! खग्गं मे कप्पिा मेच्छुसरीरं पेच्छिर वाणाइ तुम्म धु श्रहं वीरो ॥ ( मुञ्च सुन्दरि ! पादमर्पय हसित्वा सुमुखि ! खड्गं मे । कल्पयित्वा म्लेच्छशरीरं प्रेक्षिष्ये वदनं तव ध्रुवमहं वीरः ॥ ) वरस कह विट्ठी तप्प भुणे दिश्राणिसं जागन्तो । णीस साहसको णिन्दर इन्दं अ सुरबिम्बं अ ॥
( वर्षति कनकस्य वृष्टिं तपति भुवने दिवानिशं जानत् । निःशङ्कं साहसाङ्को निन्दति इन्द्रं च सूरबिम्बं च ॥ ) एते संस्कृते ललितावल्गु गीतिसंज्ञे । तथार्धद्वयेऽपि चतुर्मात्रिकाष्टगणघटितं स्कन्धकं सेतुकाव्ये यथा
जं जं श्रणेइ गिरिं रइरहचक्कपडिघट्टणसहं हणुमा । तं तं लीलाइ गलो वामकरत्तोल्लिअं रएइ समुद्दे ॥
( यं यमानयति गिरिं रविरथचक्रपरिघट्टनसहं हनुमान् । तं तं लीलया न्लो वामकरोत्तोलितं रचयति समुद्रे ॥ ) इयमेव संस्कृते श्रार्यागीतिः । श्रत्र यद्यष्टाविंशतिर्गुरवः, अष्टौ लघवस्तदा नन्दसंज्ञा । तत एकगुरुद्विषष्टिलघुपर्यन्तमेकैकगुरुहासे लघुद्वयद्ववृद्धौ चाष्टाविंशतिर्भेदाः । तेषां क्रमेण संज्ञाः - नन्द - भद्र-शेष- सारङ्गशिव-ब्रह्म- चारण- वरुण-नील-मदन- तालङ्क- शेखर-शर- गगन - शरभ - विमति-क्षीर-नगर-नर-स्निग्ध-स्नेहन- मदकल - लोभ-शुद्ध-सरित् - कुम्भ-कलश-शशधराख्याः। तत्र नन्दोदाहरणम् -
चन्दा कुन्दा कासा हारा हंसा तिलोणा केलासा । जेत्ता जेत्ता सेत्ता तेत्ता कासीस जिशिअ ते किती ॥ ( चन्द्रः कुन्दः काशो हारो हंसस्त्रिलोचनः कैलासः । यावद्यावच्छ्रेतं तावत्काशीश जितं ते कीर्त्या ॥ ) एवमन्येष्वपि भेदेषु ज्ञेयम् ।
इति गाथाप्रकरणम् ॥
अथ दोहा ।
यस्याः प्रथमतृतीययोः पादयोः प्रथमं षट्कलो गणः, ततश्चतुष्कलः, ततस्त्रिकल इत्येवं त्रयोदश मात्राः, द्वितीयचतुर्थयोः षट्कलचतुष्कलौ समानौ त्रिकलस्थाने एको लघुरेवेत्येकादशमात्रास्तदिदमष्टाचत्वारिंश- - न्मात्राभिर्दोहाच्छन्दः । यथा
सुरअरु सुरही परसमणि राहि वीरेससमाण ।
१७