SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे संस्कृते त्वियमुपगीतिः । श्रायैव प्राकृते गाथा । उदाहरणं ममैव प्रागुक्तम् । तदुक्तम् १२८ पढमं बारह मत्ता वीए श्रद्वार हेहिं संजुत्ता । जह पढमं तह ती दहपञ्चविहूसिश्रा गाहा ॥ ( प्रथमं द्वादश मात्रा द्वितीयेऽष्टादशभिः संयुक्ता । यथा प्रथमं तथा तृतीयं दशपञ्चविभूषिता गाथा ॥ इति । ) तत्र यदि सप्तविंशतिर्गुरवस्त्रयश्च लघव इत्येवं त्रिंशदक्षरा तदा लक्ष्मीनाम्नी । षड्विंशतिर्गुरवः पञ्च लघवस्तदा ऋद्धिः । एवमेकगुरुपञ्चपञ्चाशल्लघुपर्यन्तमेकैकगुरुहासे लघुद्वयद्वयवृद्धौ च त्रिंशदक्षरकं भेदमारभ्य षट्पञ्चाशदक्षरभेदपर्यन्तं सप्तविंशतिर्भेदाः । क्रमेण तन्नामानि-लक्ष्मी - ऋद्धि-बुद्धि-लजा-विद्या - क्षमा- गौरी-देही - - रात्रि -- पूर्णाच्छाया-कान्ति- महामाया - कीर्ति-सिद्धा-मानी - रामा - गाहिनी -- विश्वावासिता - शोभा - हरिणी- चक्री - सारसी - कुररी - सिंही - हंसी (२७) इति । त्रयोदशलघु पर्यन्तं विप्रा, तत एकविंशतिलध्ववधि क्षत्रिया, ततः सप्तविंशत्यवधि लघुभिर्वैश्या, ततः सर्वा शुद्धेति गाथाजातिः । गाथान्तर्गतेनैकेन जगणेन कुलीना गाथा भवति । द्वाभ्यां कुलटा | बहुभिर्वेश्या जगणरहिता रण्डा । तत्रापि या प्रथमादिविषमादिस्थाने जगणयुक्ता सागुर्विणीति संज्ञिता कर्तुर्नायकस्य च दुष्टा भवति । सर्वासां गाथा - नां प्रथमपादो हंसीवन्मन्थरः पठनीयः, द्वितीयः सिंहविक्रमवदुद्धतः, तृतीयो गजगतिवल्ललितः, चतुर्थः सर्पगतिवञ्चञ्चल इति । गाथाद्वितीयार्धं यदि प्रथमं प्रथमं च द्वितीयं तदा विगाथः । इयं संस्कृते उद्गीतिः । यथा 1 परिहर माणिणि ! माणं पेक्खहि कुसुमाडं गीवस्स । तुम्ह कर खरहि गेरहइ गुलिश्राइ धरपुर किर कामो ॥ ( परिहर मानिनि ! मानं प्रेक्षस्व कुसुमानि नीपस्य । तव कृते खरहृदयो गृह्णाति गुलिका धनुषि किल कामः ॥ ) तथा द्वयोरप्यर्धयोस्त्रिंशन्मात्रा गाथा प्रथमार्धवद्यदि भवति तदो द्वाथः । यथा - सोऊण जस्स णामं अंस राणाई सुमुहि ! रुद्धन्ती । भण बीरचेइवइणो पेक्खामि मुहं कहं जहिच्छं से ॥ ( श्रुत्वा यस्य नामाश्रूणि नयने सुमुखि ! रुन्धन्ति । भण वीरचेदिपतेः पश्यामि मुखं कथं यथेच्छं तस्य ॥ ) इयमेव संस्कृते गीतिः । तथा पूर्वार्धे त्रिंशन्मात्रा गाथावत् उत्तराधे
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy