________________
तृतीयोऽध्यायः ।
१०५
मो मगणः, षट् नाः नगणाः, सगणः गो गुरुः पुनर्गुरुश्च नवभिः पभिः पुनः पभिः पञ्चभिश्च यत्या युतमपवाहकसंज्ञम् ।। अत्र वृत्तसङ्ख्या ६५१०८८६४ ॥ १११ ॥
इति श्रीनारायण भट्टविरचितायां वृत्तरत्नाकरटीकायामुक्तादिप्रकरणम् ।
इदानीं समवृत्तप्रसङ्गेन समवृत्तरूपान्दण्डकानाहयदि ह नयुगलं वतः सप्तरेफा
स्तदा चण्डवृष्टिपातो भवेद्दण्डकः ।। ११२ ॥
यदीति यदेत्यर्थेऽव्ययम् । हेति प्रसिद्धार्थेऽव्ययं वा । नयुगलं नगगद्वयं ततस्तदनन्तरं सप्त रगणाः, स चण्डवृष्टिप्रपातो नाम दण्डकः । इदमेवोदाहरणं पादे । इयं च संज्ञा रातमाण्डव्यव्यतिरिक्तपिङ्गलादिमतेन । ताभ्यां त्वेतस्य संज्ज्ञान्तरमकारि ॥ ११२ ॥ प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव
व्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ ११३ ॥
यद्यपि प्रतिचरणं विवृद्धो रेफो रंगणो येषु ते तथेति व्युत्पत्त्या प्रथमे पादे नौ ततोऽष्टौ रेफाः, द्वितीये नव, तृतीये दश, चतुर्थे एकादशेति वृद्धिरित्यर्थः प्रतीयते, तथापि गन्थान्तरविरोधात्प्रतिदण्डकं चरणेषु विवृद्धा रेफा येष्विति विग्रहेणोत्तरोत्तरदण्डकेषु चरणचतुष्टयेऽप्येकैकरेफवृद्धिरित्यर्थाश्रयणेन ग्रन्थान्तराऽविरोधः कार्यः । ततश्च नाभ्यां रगणाष्टकेन च घटितपादोऽर्णाख्यो दण्डकः, रगणनवकेनाऽर्णवः, दशभिर्व्यालः, एकादशभिर्जीमूतः, द्वादशभिर्लीलाकरः, त्रयोदशभिरुद्दामः, चतुर्दशभिः शङ्खः । सर्वत्रादौ नगराद्वयं कार्यम् । श्रादिशब्दात्पञ्चदशा
न.
न.
स. गु. गु.
At
. शकल – ललित – शिरसं --रु-ट्रं
111, 111, ।। ऽ, S, ऽ.
भूतेशं हतमुनिमखमखिलभुवननमितचरणयुगमीशानम् ॥ सर्वज्ञं वृषभगमनमहिपतिकृतवलयरुचिरकरमाराध्यं
तं वन्दे भवभयभिदमभिमतफलवितरण गुरुमुमया युक्तम् ॥ (उत्कृतिभेदेषु १०३८८०१ तमोऽयं भेदः । )
१४