SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १०६ नारायणभट्टीसहितवृत्तरत्नाकरेदिरगणैराराम-सङ्ग्राम-सुराम-वैकुण्ठ-सोत्कण्ठ-सार-कासार-विस्तार-संहार-नीहार मन्दार-केदार-साधार-सत्कार-संस्कार-माकन्दगोविन्द-सानन्द-सन्दोह-नन्देत्येवमादिनामका एकैकरगणवृझ्या नवयोत्तरैकत्रिंशदधिकशतत्रयरगणघटितैकोनसहस्राक्षरपादपर्यन्तं कविप्र. योगानुसारेण दण्डका शेयाः । यदाहुः एकोनसहस्राक्षरपर्यन्ता दण्डकाङ्ग्रयः प्रोक्ताः। वर्णत्रिकगणवृद्ध्या नद्वितयाधा महामतिभिः ॥ इति । तथा च रगणघटितदण्डकाः पञ्चविंशत्यधिकशतत्रय(३२५) सङ्ख्याका भवन्ति । एवं यगणादिघटितदण्डका अपि । तत्र रीतिप्रदर्शनायोदाहरणं ममैव यथा त्रिभुवनसुखहेतवे धातूमुख्यामरप्रार्थनासार्थनादर्थिचिन्तामणे ! दशरथकृतयागसौभाग्यतस्तत्तनूजन्मतास्थापितश्रौतमार्गार्गल!॥ मुनिवनगतताटकाकण्टकीमूलकुदालितस्वीयबाणावले ! राघव ! कुशिकयजनसिद्धये व्योम कृत्वा शरैश्चण्डवृष्टिप्रपातोऽसि हन्तुं रिपून॥ एवमर्णादिष्वप्युदाहार्यम् ॥ ११३ ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो . दण्डको नयादुत्तरैः सप्तभियः ॥ ११४ ॥ नगणद्वयादुत्तरभाविभिः सप्तभिर्यगणैीरबुद्धिभिः कविभिः प्रचित. कसंज्ञको दण्डक उक्तः । प्रचितक इति समभिधा नाम यस्येति विग्रहः । अत्रापि पूर्ववदेकैकयगणवृद्ध्या दण्डकाः कार्याः। यैरित्युपलक्षणम् । अष्टभिरपि गणैः कविप्रयोगानुरोधाद्भोगावलीबिरुदावल्यादिषु दण्डकानामिष्टत्वात् । यद्यपि “शेषः प्रचितः, ( पिसू०७-३६) इति सूत्रं वृत्तिकृता रेफाष्टकादिरचितदण्डकपरं शेषशब्दमङ्गीकृत्य रगणघटितानामेव चण्डवृष्टिप्रपातोर्वभाविनां 'प्रचित' इति सामान्यसंज्ञाभिधानार्थतया व्याख्यातम् । अत एव चाह सःप्रथमकथितदण्डकश्चण्डवृष्टिप्रपाताभिधानो मुनेः पिङ्गलाचार्यनाम्नो मतः, प्रचित इति ततः परं दण्डकानामियं जातिरेकैकरेफाभिवृद्ध्या थथेष्टं भवेत्॥ स्वरुचिरचितसंशया तद्विशेषैरशेषैः पुनः काममन्येऽपि कुर्वन्तु वागीश्वराः, भवति यदि समानसङ्ख्याक्षरैस्तत्र पाव्यवस्था ततो दण्डकः पूज्यते. ऽसौ जनैः ॥ इति । तथापि यगणादिदण्डकानामपि कविप्रयुक्तत्वादुक्तरगणरचितदएडकव्यतिरिक्तयादिकृतदण्डकानामेव शेषशब्दोद्दिष्टानां प्रचितकसंज्ञा
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy