SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४२ 5 काव्यमाला । प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेमुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । संदानितकादिषु तु विकटनिर्बन्धनौचित्यान्मध्यम समासादीर्घसमासे एव संघटने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् । पर्यायबन्धे पुनरसमासामध्यमसमासे एव संघटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि संघटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः । तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तं रसबन्धाभिनिवेशात् । खण्डकथा सकलकथयोः प्राकृतप्रसिद्धयोः कुलकादि निबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः । वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् । सर्गबन्धे तु सतात्पर्येण यथारसमौचित्यमन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रुसतात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः कार्यः । आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्ये च च्छन्दोबन्धभिन्नंप्रस्थानवादिनियमे हेतुरकृतपूर्वोऽपि मना क्रियते । 1 अमरुकस्येति । 'कथमपि कृतप्रत्यासत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् । असहनसखी श्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समु`च्छ्वसितं ततः ॥' इत्यत्र हि श्लोके स्फुटैव विभावादिसंपत्प्रतीतिः । संदानितकेति । असमासायां हि संघटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरचर्त्यनुधावति । वाच्यप्रतीतावेव विश्रान्ता सती न रेसत्वचर्वणायोग्या स्यादिति भावः । प्रबन्धाश्रयेष्विति । संदानितकादिषु कुलकान्तेषु । यदि वा प्रबन्धेष्वपि मुक्तकस्या - स्ति सद्भावः । पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् । यथा‘त्वामालिख्य प्रणयकुपितां-' इत्यादि श्लोकः । कदाचिदिति रौद्रादिविषये । नात्यन्तमिति । रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति संगतिः । वृत्त्यौचित्यमिति । परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च । अन्यथेति । कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः । द्वयोरपीति सप्तमी । कथातात्पर्ये सैर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् । रसतात्पर्यं यथा रघुवंशादि । अन्ये १. ‘बन्धौचित्यात्' ग. २. 'रचने' ग. ३. 'पद्यप्रबन्धाश्रितेषु' क ख ४. 'पद्य - बन्धेषु’ क-ख. ५. ‘कथायां तु' क ख ६. 'रस' क- ख- पुस्तकयोर्नास्ति ७. 'का'चारात्' ग. ८. 'बन्धाभिधायिनां ' ग. ९. ' विभिन्नप्रस्थाने निबन्धनात्वात्' क-ख. १. 'रसतत्त्व' क-ख. २. 'संबन्धो यथा' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy