________________
३ उद्योतः ]
* ध्वन्यालोकः ।
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धेऽपि च्छन्दोनियमवर्जिते ॥ ८ ॥ यदेतदौचित्यं वक्तवाच्वगतं संघटनाया नियामकमुक्तमेतदेव गधे छन्दो - नियमवर्जितेऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः । रसभावसमन्विते तु वक्तरि पूर्वोक्तमेवानुसर्तव्यम् । तत्रापि वा विषयौचित्यमेवें । आख्यायि - । कायां तु भूम्ना मध्यमसमासादीर्घसमासे एव संघटने । गद्यस्य विकटनिबन्वाश्रयेण च्छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्त मौचित्यमनुसर्तव्यम् । रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता ।
1
रचना विषयापेक्षं तत्तु किंचिद्विभेदवत् ॥ ९ ॥
अथ वा पद्मवद्गद्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना भौति । तत्तु विषयापेक्षं किंचिद्विशेषवद्भवति । न तु सर्वाकारम् । तथा हि गद्यबन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते । नाटकादावप्यसमासैव घटना । रौद्रवीरादिवर्णने विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च । तथा ह्याख्यायि
१४३
तु संस्कृतप्राकृतयोर्द्वयोरिति व्याचक्षते । तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्कि - मपेक्षयेति नेयार्थं स्यात् । विषयापेक्षमिति । गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः। स्थितिपक्षं दर्शयति-रसबन्धोक्तमिति । वृत्तौ च वाशब्दोऽस्यैव पक्षस्य स्थितिद्योतकः । यथा—‘स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् । स्वार्थाय यदि वा दुःखसंभारायैव केवलम् ॥' इति । रचना संघटना । तर्हि विषयौचित्यं सर्वथैव त्यक्त, नेत्याहतदेव रसौचित्यं विषयसहकारितयापेक्ष्य किंचिद्विभेदोऽवान्तरवैचित्र्यं विद्यते यस्य संपाद्यत्वेन तादृशं भवति । एतद्याचष्टे - तत्त्विति । सर्वाकारमिति क्रियाविशेषणम् । असमासैवेति । सर्वत्रेति शेषः । तथा हि वाक्याभिनयलक्षणे 'चूर्णपादैः प्रसन्नैः' इत्यादि मुनिरभ्यधात् । अत्रापवादमाह - तथेति । नाटकादाविति । खविषयेऽपीति
१. ‘तस्मात्' क-ख. २. 'यथा तच्चात्रापि' ग. ३. 'अत्रापि' क- ख. ४. 'एतत्' क- ख. ५. 'भवति' क-ख.
१. 'अनुसर्तव्याः' क-ख.